________________
सर्गः] . हीरसौभाग्यम् ।
१९९ श्रीमत्सुहस्तिबतिवासवस्य श्रीसुस्थितः सुप्रतिबद्धसूरिः। पदं विनेयौ नयतः स्वलक्ष्मी क्रमं मुरारेरिव पुष्पदन्तौ ॥ ४३ ॥ श्रीमत्सुहस्तिनाम्नो व्रतिवासवस्य मुनीन्द्रस्य विनेयौ उभौ शिष्यौ पदं पहुं श्रियं शोभा नयतः स्म प्रापयतः स्म । द्वौ कौ । एकः श्रीयुक्त: शोभाकलितः सुस्थितनामा सूरिः, अपरः सुप्रतिबद्धनामा आचार्यः । काविव । पुष्पदन्तौ। 'पुष्पदन्तावेकोक्त्या शशिभास्करौ' इति हैम्याम् । यथा सूर्याचन्द्रमसौ मुरारेः क्रममाकाशं लक्ष्मी लम्भयतः ॥
प्रीति सृजन्ती पुरुषोत्तमानां दुग्धाम्बुराशेरिव पद्मवासा । हृदा जिनं विभ्रत आविरासीत्तत्सूरियुग्मादिह कौटिकाख्या ॥ ४४ ॥ इह दक्षिणभरतार्धभूमौ तत्सूरियुग्मात् सुस्थितसुप्रतिवद्धनामाचार्यद्वन्द्वात् गणस्य गच्छस्य कोटिका इति आख्या नामाविरासीत् प्रकटीवभूव । पूर्वं तु सुधर्मखामिनमारभ्य सुहन्ति सूरि यावत्साधूनां निर्ग्रन्था इत्यभिधानमासीत् । मुस्थितसुप्रतिबद्धसूरियुगलात् द्वितीयं कौटिकगण इति नाम वभूव । कोटिशः सूरिमन्त्रजापात् कीट्यंशसूरिमन्त्रधारित्वाद्रा कौटिकः । केव । पद्मवासेव । यथा दुग्धाम्बुराशेः क्षीरसमुद्रालक्ष्मीराविर्वभूव । सूरियुग्मात् दुग्धाम्बुराशेश्च किं कुर्वतः । हृदा हृदयेन मनसो मध्येऽन्तरेण जिनमर्हन्तं विष्णुं च विभ्रतो धारयतः । कौटिकाख्या पद्मवासा च किं कुर्वती । पुरुषेपत्तमानां श्रेष्टानां धार्मिकाणां विष्णोश्च प्रीतिमानन्दं तुष्टिं स्नेहं सृजन्ती कुर्वती ॥ इति मुस्थितसुप्रतिबद्धौ सूरी एकपट्टधरावेव ॥
श्रीइन्द्रदिन्नबतिसार्वभौमस्तत्पट्टलक्ष्मीतिलकं बभूव । निशुम्भ्यते दाम्भिकता म येन कलिन्दकन्येव हलायुधेन ॥ ४५ ॥ श्रिया त्रिंशत्सूरिगुणलक्ष्म्याकलितसुप्रतिद्धिमान् इन्द्रदिन्ननामा वतिनां वाचंयमानां मध्ये सार्वभौमश्चक्रवर्ती तयोः मुस्थितमुप्रतिबद्धाचार्ययोः पहलक्ष्म्यास्तिलकं विशेपको बभूव संजातः । स कः । येन भगवता दाम्भिकता दम्भवारिता कापट्यं निशुम्भ्यते स्म निर्दलितम् । केनेव । हलायुधेनेव । यथा वलभद्रेण कलिन्दकन्या यमुना निशुम्भिता । पराभूतेत्यर्थः । 'रुक्मिप्रलम्बयमुनाभिदनन्तभाल-' इति हैम्यां रामनामसु ॥ पक्षद्वयं भिन्नतमोभरेण पित्रोः पवित्रीक्रियते स्म येन । कुबेरदिग्दक्षिणयोः पदव्योर्द्वन्द्वं प्रियेणेव पयोजिनीनाम् ॥ ४६ ॥ येन इन्द्र दिन्नसूरिणा पित्रोर्जननीजनकयोः पक्षद्वयं वंशद्वन्द्वम् । मातृवंशः पितृवंशश्वेत्यर्थः । पवित्रीक्रियते स्म पावनीचक्रे । केनेव । प्रियेणेव । यथा पयोजिनीनां कमलिनीनां भ; भानुना कुबेरदिग्दक्षिणयोः उत्तरायाम्योः पदव्योर्मार्गयोर्द्वन्द्वं युगलं