________________
४ सर्गः] हीरसौभाग्यम् ।
१५१ उपप्लवो मन्त्रमयोपसर्गहरस्तवेनावधि येन संधात् । जनुष्मतो जाङ्गुलिकेन जाग्रद्गरस्य वेगः किल जाङ्गुलीभिः ॥ २९॥ येन भगवता मन्त्रमयेन विषधरस्फुलिङ्गनाममन्त्रतद्विधमन्यन्त्रधानेन उपसर्गहर इति नाम्ना श्रीपार्श्वनाथस्य स्तवेन स्तोत्रेण कृत्वा संधात् साधुसाध्वीश्राद्धश्राद्धीलक्षणात् उपप्लवः मिथ्यान्विव्यन्तरीभूतभ्रातृवराहमिहिरनिर्मितमान्द्यमरकाभिधोपद्रवोऽवधिहतो निवारितः । अत्र किलेति इवाथें। 'उत्प्रेक्षाद्योतकाः शङ्के मन्ये नूनमिव ध्रुवम् । जाने किलादयो ज्ञेया प्रायेणैव क्रियोद्भवाः ॥' इति काव्यकल्पलतायाम् । केनेव । जाङ्गलिकेन किल । यथा विषभिषजा जालीभिः समग्रभुजगविषापहारणीभिः विद्याभिः जनुष्मतो विषवेगपूणितजनात् जाग्रत्प्रत्यङ्गोपाङ्गं प्रसरतो गरस्य विषधरविषस्य वेगः प्रसरो हन्यते निराक्रियते । हन्तेर्वधिरादेश: भूते सिविषये ॥
यत्कीतिगङ्गां प्रसूतां त्रिलोक्यामालोक्य किं षण्मुखतां दधानः । जगन्द्रमीभिर्जननी दिदृक्षुर्गङ्गासुतोऽध्यास्त मयूरपृष्ठम् ॥ ३० ॥ गङ्गासुतः खामिकार्तिकः । गङ्गोमाकृत्तिकामुतः' इति हैम्याम् । मयूरस्य केकिनः पृष्ठं तनोश्वरमं भागं प्रदेशम् अध्यात्त आरुरोह । किं कुर्वाणः । षट्संख्याकानि मुखानि यस्य तस्य भावस्तां दधानो विभ्राणः । उत्प्रेक्ष्यते-जगत्सु त्रिभुवनेषु श्रमीभिर्धमणैः पर्यटनः कृत्वा जननी मातरं मन्दाकिनी दिदृक्षुटुमिच्छु: किमु । भ्रमीशब्दो दीर्घाऽप्यस्ति । 'अपि धर्माभङ्गिभिरावृताङ्गीम्' इति नैषधे । किं कृत्वा । व्यालोक्य दृष्ट्वा । काम् । यत्कीर्तिगहाम् । यस्य भद्रबाहुखामिनः कीर्तिरेव मन्दाकिनीम् । केंभूताम् । त्रिलोक्यां स्खलोकपाताललोकभूलोकत्रिके निरन्तरतया प्रमृता अतिधवलीकृतत्रिभुव• नामित्यर्थः ॥ इति श्रीभद्रबाहुखामी ॥
श्रीम्थूलभद्रेण निजान्ववायश्रो(स्रो)तस्विनीनायककौस्तुभेन । विश्वत्रयी तद्यशसेव शोभामलम्भि तत्पट्टपयोधिपुत्री ॥ ३१ ॥
श्रिया शोभया युक्तेन स्थूलभद्रण तयोः संभूतिविजयभद्रवाहुखामिनोः पट्टस्य प• योधिपुत्री लक्ष्मी: शोभामलम्भि प्रापिता । केनेव । तद्यशसेव । यथा तस्य श्रीस्थूल
भद्रस्य यशसा श्लोकेन विश्वत्रयी त्रिलोकी शोभा लम्भिता । किंभूतेन स्थूलभद्रेण । निजः स्वकीयो यो नागरनामा ब्राह्मणवंशः स एव स्रोतस्विनीनायक: नदीपतिः समुद्रः तत्र कौस्तुभेन नारायणबाहुमध्य प्यास्तुर्मणि विशेषस्तत्सदृशस्तेन ॥ .
प्रवालमुक्तामणिमञ्जिमश्रीचित्राप्सरःस्वर्द्विरदाश्वदृश्यम् । कोशागृहं प्रावृपि यः विषेवे हरिर्धनच्छायमिवाम्बुराशिम् ॥ ३२ ॥
यः श्रीस्थूलभद्रः प्रावृपि वर्षाकाले कोशानाम्न्या वेश्या या गृहं मन्दिरं सिषेवे भेजे । प्रथमं चतुमासमकापादिलर्थः । केचितु कदाचिदपि चकारेत्यूचुः । क इव । हरिरिव ।