________________
.४ सर्गः
हीरसौभाग्यम् । कृप्ता निर्मिता मूर्तयः प्रतिमा रोषाम् । स्वस्ववर्णप्रमाणोपेतचतुर्विंशतिजिनबिम्बान्नमसितुनित्यर्थः ॥
कथं लभेतास्य तुलां सुरद्रुर्यद्यस्य नामापि पिपर्ति कामान् । तपस्वितोऽप्यभ्यवहारयन्यो द्विधामृतास्वादजुषः पुपोष ॥ १० ॥ अस्य गौतमस्वामिनः तुलां साम्यं सुरद्रुः कल्पवृक्षः कथं केन प्रकारेण लभेत । यकारणात् यस्य गौतमस्य नामापि अभिधानमपि कामान् जनानां मनोरथान् पिपति पूरयति । 'यस्याभिधानं मुनयोऽपि सर्वे गृह्णन्ति भिक्षाभ्रमणस्य काले । मिष्टानपाना. म्बरपूर्णकामाः स गौतमो यच्छतु वाञ्छितं मे ॥ इति पूर्वाचार्यकृतस्तुत्युक्तेः । तथा गृहमेधिनोऽपि व्यापारादिकार्यं कुर्वाणा गौतमस्वामिनी लब्धिरित्युञ्चरन्ति च । अथ कल्पवृक्षाभिधानग्रहणेन कोऽप्यर्थो न सरीसति तस्मात्कल्पतरूपमानं न स्यादस्येति अपि पुनर्यस्तपस्विनस्तापसावभ्यवहारयन् पायसं भोजयन् सन् द्विधा द्वाभ्यां प्रकाराभ्यां कृत्वा अमृतस्य मुधाया मोक्षस्य वा खादं भोगं जुषन्ते सेवन्ते तादृशान् पुपोष। चकारेत्यर्थः । प्रथमममृतोपमं पायसमाकण्ठं भोजयित्वा ततः सिद्धिवधूविलासरसिकांश्च कृतवान् , ए. तदपि महदाश्चर्यमस्ति ॥ इति गौतमस्वामी ॥
आसीत्सुधो गणभृत्सु तेषु श्रीवर्धमानप्रभुपट्टधुयेः । विहाय विश्वे सुरभीतनूजं कः स्तात्परो धुर्यपदावलम्बी ॥ ११ ॥
तेषु गौतमादिषु गणभृत्यु गणधरेषु श्रीवर्धमानप्रभोः श्रीमहावीरखामिनः पट्टे पदे धुर्यः धुरंधरः सुधर्मानामा गणधर आसीत् । युक्तोऽयमर्थः । सुरभीतन्जं सुरभीशब्दो दीर्घईकारान्तोऽपि दृश्यते । यथा कल्पकिरणावल्याम्-'स्वप्ने मानवमृगपतितुरङ्गमात
पभसुरभीभिः' इति । तथा पाण्डवचरित्रेऽपि-'दक्षिणस्या दिशः सर्वे नीयन्ते सुरभीगणाः' इत्युक्तेः । विहाय त्यक्त्वा परोऽन्यः को धुर्यपदावलम्बी धुर्यस्य धौरेयस्य पदं युगं लक्षणं स्थानं तस्यावलम्ब आश्रयोऽस्त्यस्य ईदृशः कः स्तात् । अपि तु वृषभं विना न कोऽपि धुरीण: स्यात् ॥
यः पञ्चमोऽभूद्गणपुङ्गवानां किं पञ्चमी स्वेन गति यियासुः । यत्रोक्तिभिस्तीर्थकृतां दिदीपे शुक्तिबजे वारिमुचामिवद्भिः ॥ १२ ॥ यः सुधर्मनामा गणानां गच्छानां प्रधानानां मध्ये पश्चानां संख्यापूरणः पश्चमः अ. भूत् बभूव । उत्प्रेक्ष्यते-स्वेनात्मना पञ्चमी मुक्तिलक्षणां गति यियासुः किमु गन्तुमिच्छुरिव । पञ्चमो जज्ञे । यत्र सुधर्मस्वामिनि तीर्घकृतां पूज्यत्वख्यापनार्थ बहुत्वम् । महावीरस्य । अथवा 'वीरविभोः' इति पाठः । तत्र वीसे महावीरः । देशैकग्रहणेन देशिनो ग्रहणम् । भीमो भीमसेनः, भामा सत्यभामा, इत्यादिवत्तथा वीरपदोपादानन महावीरग्रहणं स चासौ विभुः स्वामी जगदीश्वरस्तस्य उक्तिभिवाक्यैरागभैराप्तोक्तित्वात्तेषां दि. दीपे । कस्मिन्निव । शुक्तिबजे इव । यथा शुक्तिकानां निकरे वारिमुचा मेघानामद्भिः