________________
१३४
काव्यमाला।
शब्देनात्मा उत् ऊर्व बबन्धुः बध्नन्ति स्म । खं पाशपतितं कुर्वते स्मेत्यर्थः । किं कर्तुमिच्छवः । तित्यक्षवः त्यक्तुमिच्छवो विहातुं कामा: । कस्मात् । दुःखात् । काम् । तनुलतां खशरीरयष्टिम् । किंभूताः प्रवालाः । पराभवपदमभिभूतिस्थानं गमिताः प्रापिताः । कया । खकीयया आत्मीयया लक्ष्म्या श्रिया शोभया वा । काभिः । यत्पादपङ्कजयुगाङ्गुलिभिः यस्य कुमारस्य पादौ चरणाविव पङ्कजे पद्मे तयोयुगलं द्वन्द्वं तस्याङ्गुलीभिः पदशाखाभिः ॥
कामद्विपेङ्कुश इवोद्भवितायमेव
कामाङ्कुशैः किमिति सूचयति स्म वेधाः । रत्नं यदेष भुवि सूरिभरेषु भावी ।
रत्नश्रियं किमु पुनर्निदधे स तेषु ॥ ११५ ॥ . .. वेधा ब्रह्मा एतस्य कुमारस्य कामाशैरिति नामभिर्नखैः । 'कामाङ्गशो महाराज- ' करजो नखरो नखः' इति हैम्याम् । उत्प्रेक्ष्यते-इति सूचयति स्म किम् । लोकपुरः । कथयति स्मेव । इति किम् । यदयं हीरकुमारः कामद्विपे स्मरहस्तिनि विषये अशः सृणिरिवोद्भविता प्रादुर्भावष्यति । सर्वथापि दुर्दमं मदनं यौवनेऽप्येष दमिष्यतीत्यर्थः । पुनः स ब्रह्मा तेषु कामाङ्कशेषु । उत्प्रेक्ष्यते-इति हेतोः । अत्र इतिशब्दः पूर्वपदादेव ग्राह्यः । एककाव्यत्वात् । रत्नश्रियं माणिक्यलक्ष्मी निदधे स्थापितवान् । इति किम् । यदेष कुमारो भुवि पृथिव्यां सूरिभारेवाचार्यव्रजेषु रत्नं माणिक्यमिव भावी भविष्यति । 'नगीनो' इति प्रसिद्धः ॥
यन्मूर्तिदीधितिझरेषु किमु प्ररोहा
रोमाणि कामपि रमां कलयांबभूवुः । ईदृग्विधा वयमिहैव न चापरत्र
वक्तुं गुणैः किमिति यन्त्रकृताः खरेखाः ॥ ११६ ॥ रोमाणि यस्य लोमलेखाः कामप्यसाधारणी रमां श्रियं कलयांबभूवुः धारयन्ति स्म । उत्प्रेक्ष्यते-यस्य कुमारस्य मूर्तिः शरीरं तस्य दीधितयः परितः प्रसरत्कान्तयः ता एव झरा निर्झरप्रवाहास्तेषु हस्तपहृदयादिवङ्गत्वाद्बहुवचनम् । तेषु प्ररोहा नीलतृणाङ्कराः किमु । पुनर्यत्र कुमारे औदार्यधैर्यगाम्भीर्यादिगुणैः उत्प्रेक्ष्यते । इति वक्तुं किमु जनानां पुरः कथयितुमिव खाः खाः सरूपाणामेकशेषे एक एव खशब्दस्तिष्ठति रेखा लघुरूपाः कृताः किमु इति किम् । यत् ईदृशी विधा प्रकारो येषाम् अनन्यसामान्यमाहात्म्येन सकललोकचेतश्चमत्कारिणस्तादृशा वयं सर्वेऽपि गुणा इहैव हीरकुमारे एव स्मो वर्तामहे, च पुन परत्र अपरस्मिन् स्थाने । एवंविधा वयं सर्वथापि न स्मः ॥