________________
३ सर्गः ]
हीरसौभाग्यम् ।
१२२
द्वात्रिंशत्व स्पर्धयेव इति गर्भितोत्प्रेक्षा । पुनस्तदीयं कुमारसंबन्धि वदनं वाग्भिवणीभिः कृत्वा सुधां पीयूषं ववर्ष वर्षति स्म । उत्प्रेक्ष्यते -- पीयूषममृतं वर्षतीत्येवंशी - लस्तस्य सितरोचिषश्चन्द्रस्य अन्तश्चित्तमध्ये असूयया ईर्ष्ययेव सुधामवर्षत् ॥
उद्धृत्य कण्टकगणान्किमु वारिजन्म किं वात्मदर्शमपहृत्य विचेतनत्वम् । संतक्ष्य लक्ष्मशितिमानमुतामृतांशुं
राजीवभूरकृत हीरकुमारवक्रम् ॥ १०२ ॥ राजीवभूर्वेधाः किमु इति वितर्कयामि विचारं कुर्वे । 'वितर्के किमूत च' इति है - म्याम् । वारिजन्म विकसितकमलम् । अर्थादादाय । कर्मद्वयं वा । कृधातोर्द्विकर्मकत्वेनहीरनाम्नः कुमारस्य वक्रं मुखमकृत विरचयांचकार । किं कृत्वा । कण्टकानां गणान् व्रजानुद्धृत्य निष्कास्य । ‘शशिनि खलु कलङ्कं कण्टकाः पद्मनाले जलधिजलमपेयं पण्डि निर्धनत्वम् । दयितजनवियोगो दुर्भगत्वं स्वरूपे धनपतिकृपणत्वं रत्नदोषी कृतान्तः ॥ इति सूक्तवचनात् पद्मे कण्टकाः । वा अथवा विचेतनत्वं चेतनाराहित्यम् अपहृत्य अज्ञानतां मुषित्वा आत्मदर्श दर्पणं किमादाय, हीरमुखं चक्रे । उत अथवा लक्ष्मणो लाअछनस्य शितिमानं कृष्णतां संतक्ष्योत्तार्य किम् अमृतांशुं सुधाकरं हीरवदनं विधिर्विदधे ॥ इति मुखम् ॥
निःशेषभूवलयकुण्डलिवेश्मना कि
लोकत्रिके प्रसृमरैर्यशसां विलासैः ।
रेखा भविष्यति महत्सु यदस्य कण्ठे
रेखात्रिकं किमिति निर्मितवान्विधाता ॥ १०३ ॥
विधाता ब्रह्मा अस्य कुमारस्य कण्ठे गलकदले । उत्प्रेक्ष्यते - इति हेतो रेखात्रिकं निर्मितवान् किमु कृतवानिव । इति किम् । यत् निःशेषं समयं भूवलयं मेदिनीमण्ड लम्, तथा कुण्डलिनां नागानां वेश्म गृहं पातालम्, तथा नाकिनां देवानां लोको विश्व स्वर्गस्तेषां त्रिके त्रयेऽपि प्रसृमरैः प्रतिस्थानं विस्तरणशीलैर्यशसां कीर्तनां विलासैर्वैचि - त्रीभिरस्य हीरकुमारस्य महत्सु उत्तमजनेषु रेखा भविष्यति । एतस्मात्परः कोऽप्येतागुणगणकलितस्त्रिभुवनेऽपि नास्तीति प्रसिद्धिर्भाविनी ॥
भावी यदेष वृषवज्जिनधर्मधुर्यः स्कन्धोऽप्यभूत्किमिति तत्ककुदोपमेयः । अर्भः पुरा भवति येन युगप्रधानो
जज्ञेऽस्य बाहुरपि तेन युगप्रधानः ॥ १०४ ॥
१७