________________
काव्यमाला।
उपवासादिकष्टं संतप्य तत्वा यथाविधि[ना] विधाय । किम् । तपः । 'स्थाणुः स्तम्भकीलकशंभुषु' इत्यनेकार्थः । तस्य शिरसि मस्तके निवसनं सदा स्थितिस्तथा न वि. द्यते अशनं भोजनम् , अम्बुनो जलस्य पानं धीतिर्यत्र । 'धीतिः पानेऽथ शोषणम्' इति हैम्याम् ॥
यस्य प्रशस्ययशसः श्रुतिपाशमध्य
निष्पातिनक्रशुकचञ्चुपुटात्कथंचित् । बिम्बीफलं विगलितं स्खलितं च वक्र
पद्मोदरे किमु रदच्छदनीबभूव ॥ ९४ ॥ बिम्बीफलं गोल्हकं यस्य कुमारस्य उत्प्रेक्ष्यते । रदनच्छदनीबभूव किमु अधरः संजात इव । किंभूतम् । कथंचित्केनापि प्रकारेण बलात्कारेण वा खबन्धनभयाकुलितत्वेन विगलितं निष्पतितम् । कस्मात् । श्रुती कर्णावेव पाशौ बन्धनग्रन्थी तयोर्मध्ये निपातितो निष्पतनशीलस्य नक्रशुकस्य नासिकारूपकीरस्य चञ्चुपुटात् शृपाटिकासंपुटतः । वक्रोदरादित्यर्थः । पुनः किंभूतं बिम्बीफलम् । स्खलितं पतित्वा स्थितम् । कस्मिन् । वक्रं वदनमेव पद्मं कमलं तस्योदरे मध्ये यस्य । किंभूतस्य । प्रशस्य विश्वश्लाघनीयं यशः कीर्तिर्यस्य ॥
रक्ताङ्करक्तमणिपल्लवपाटलश्री
पाटच्चरो यदधरः श्रियमश्नुते स्म । आस्थानवेदिरिव वाङ्मयदेवताया ।
आवासवेश्मनि कुमारमुखारविन्दे ॥ ९५ ॥ यदधरो हीरकुमारस्यौष्ठः श्रियं शोभामश्नुते व्याप्नोति । बिभतीत्यर्थः । किंभूतः । रक्ताङ्का विद्रुमाः रक्तमणयः पद्मरागाः पल्लवाः किशलयानि तेषां पाटलत्रियो भावप्रधाननिर्देशाद्रक्तत्वलक्ष्म्याः स्वभावशोभाया वा पाटच्चरस्तस्करः अपहर्ता । उत्प्रेक्ष्यतेअधरः वाङ्मयदेवतायाः श्रीसरखत्याः आस्थानवेदिः सभायामुपवेशनार्थ वेदिकेव । कस्मिन् । कुमारस्य मुखमेवारविन्दं कमलं तत्र । किंभूते कुमारमुखारविन्दे । आवासवेश्मनि । वाग्देवताया आवासार्थ निवसनकृते वेदमनि गृहे । कुमारवदनारविन्दरूपे मन्दिरे निवसन्त्या इत्यर्थः ॥
अभ्युद्गतैर्मुखखनेरिव वज्ररत्नै
दन्तैरदीप्यत कुमारपुरंदरस्य । वाजधाम्न इव वा श्रुतदेवतायाः
सेवासुखानुभवनागतगौरपत्रैः ॥ ९ ॥