________________
काव्यमाला ।
चक्रस्य चक्रिवदुदित्वरदीप्रदीप्ति
दण्डौघचण्डिमविखण्डितचण्डभासः । इभ्यः खभृत्यजनराजिभिरुत्सुकाभिः
संवर्ध्यते स्म जननेन तनूभवस्य ॥ ४४ ॥ इभ्यः कुंराहव्यवहारी उत्सुकाभिरुत्कण्टाकलिताभिः । खस्य कुंरामहेभ्यसंवन्धिनं भृत्वजनानां सेवकलोकानां राजिभिः श्रेणिभिः तनूभवस्य पुत्रस्य जननेन जन्मना संवय॑ते स्म वर्धाप्यते। 'अत्रान्तरे प्रियभाषिताभिधाना चेटी राजानं वर्धापयति' इति कल्पकिरणावल्याम् । वर्धित इत्यन्यत्र । वर्धापनिका दत्तेत्यर्थः । किंवत् । चक्रिवत् । यथा चक्रवर्ती चक्रस्योत्पत्त्या वर्धते स्म. वर्धाप्यते स्म । किंभूतस्य सूनोश्चक्रस्य च । उदित्वरा उदयनशीलाः प्रादुर्भवन्त्यो वा । तथा दीपा दीपनशीला झलझलान्यमानां दीप्यमाना वा, दीप्तयः कान्तयः सरलतया निर्गमनाम् दृश्यमाना वा दण्डाकारा अत एव दण्डा इव दण्डाः प्रसरा वा तेषामोघो निकरः तस्य चण्डिमभिरत्युप्रताभिर्विशेषेण खण्डितोऽभिभ तश्चण्डभाः सूर्यो येन तस्य ॥ .
सूनो नेरुपनतेरिव सेवधीना-, ___ मुद्गत्वरान्खजनवक्रसुधाकरेभ्यः । वर्णान्खकर्णपुटकेन सुधायमाना
न्पीत्वा तदा प्रमुमुदे हृदये महेभ्यः ॥ ४५ ॥ . तदा तस्मिन् काले महेभ्यः कुराहव्यवहारी हृदये मनसि प्रमुमुदे जहर्ष । किं कृत्वा । पीत्वा सादरं श्रुत्वा।कान् । वर्णान् अक्षराणि । किंभूतान् । सुधायमानान् अमृतवदाचरतः । केन पीत्वा । खस्यात्मन: कर्ण एव पुटकः पत्रभाजनं तेन।अन्यदप्यमृतं पुटकेन पीयते। पुनः किंभूतान् । उद्गत्वरान् प्रकटीभवनशीलान् । 'उद्गत्वरामृतकरार्धपरा मालाम्' इति नैषधे । केभ्यः । खजनानां बन्धुवर्गाणां ज्ञातिजनानां वा आत्मीयभृत्वलोकानां वा वक्राणि वदनानि एव सुधाकराश्चन्द्रास्तेभ्यः । सुधानामाकरात्सुधापि निर्गच्छेदिति । वर्णान् कस्याः । सुनोः पुत्रस्य जनेर्जन्मनः । कस्या इव । उपनतेरिव यथा सेवधीनां नवनिधीनां खर्णरत्ननिधानानां वा आगमनस्य वर्णान् पीत्वा कश्चिन्मोदते ॥
सूनोर्जनिं निगदतामनुगव्रजाना__मासीददेयमिह तस्य किरीटमेव । भूभर्तृभावककुदं विशदातपत्रं
धात्रीपतेरिव मुदं दधतो हृदन्तः ॥ ४६ ॥ तस्य कुंरामहेभ्यस्य इह पुत्रवर्धापनिकासमये सूनो: खपुत्रस्य जनि जन्म निगदतां