________________
१०२
काव्यमाला ।
जज्ञे चिराद्यदमुना विभुना ममान्तःप्रीत्येत्यनृत्यदिव शांभवशासनश्रीः ॥ ३५ ॥
शंभोजिनस्येदं शांभवं शासनं मतं तस्य श्रीजिनशासनलक्ष्मीरनृत्यत् नृत्यति स्म । इवोत्प्रेक्ष्यते — इति कारणादन्तश्चित्ते प्रीत्या हार्देन स्नेहेन प्रमोदेन वा । इति किम् । यच्चिरादनल्पकालादमुना कुमारेण मम जिनशासनश्रिया विभुना स्वामिना जज्ञे संजातम् । अमुना किं कुर्वता । लब्धानां विविधानां क्षीरात्रवादिकानां श्रिया शोभया संपदा वा वसुभूतिपुत्रम् | 'श्रीइन्द्रभूति वसुभूतिपुत्रं पृथ्वीभवं गौतमगोत्ररत्नम्' इति पूर्वसूरिस्तवोक्ते । वसुभूतिनाम्नो ब्राह्मणश्रेष्ठस्य पुत्रं नन्दनं गौतमखामिनमनुसरता अनुकुर्वता । च पुनः किं कुर्वता । युगप्रधानैः वज्रखाम्यादिभिः सूरिभिः सारूप्यं सादृश्यमाकलयता बिभ्रता ॥
विश्वत्रयी श्रुतिपुटैकवतंसिकाना
मस्माकमेष समजायत वासवेश्म ।
गम्भीरधीरिममुखामिरधःकृतेन्दु
श्रीभिश्च वल्गितमितीव गुणावलीभिः || ३६ ॥
गम्भीरमा गाम्भीर्य भावप्रधानो निर्देशः । धीरिमा धैर्य तावेव मुखे आदी यासाम् । अथवा गम्भीरश्च धीरच गम्भीरधीरौ गम्भीरधीरयोर्भावो गम्भीरधीरिमाणौ तावेव मुख प्रथम यासां तादृशीभिर्गुणानामावलीभिः श्रेणीभिः वल्गितं प्रोल्लसितम् । 'सुविकासहाससहकारिकारणोपलम्भपूर्णमनोरथेन वल्गितमिव वसन्तमासेन' इति चम्पूकथायाम् । किंभूताभिर्गुणावलीभिः । अधः कृता तिरस्कृता निर्मलत्वेन इन्दुश्रीचन्द्रिकाशोभा याभिः । इवोत्प्रेक्ष्यते । इति हेतोर्वल्गितमिव । इति किम् । यद्विश्वेषां त्रिभुवनानां तात्स्थ्यात्तद्यपदेशात्रिजगज्जनानां श्रुतिपुटेषु कर्णपालीषु एकानामद्वैतानां वतंसिकानामुत्तंसानाम् । 'वष्टि भागुरिरल्लोपम्' इत्यलोपाद्वतंसिकानाम् । 'विदर्भपुत्रीश्रवणावतंसिका' इति नैषधे । त्रैलोक्याद्वैतकर्णाभरणानामस्माकं गुणावलीनामेष हीरकुमारः वासवेश्म निवसनसदनं समजायत संजातः ॥
आजन्म यद्विधुरिवैष उदेति कीर्ति -
ज्योत्स्नाः किरन्कुवलयैकविकाशकारी ।
अस्मादृशैः किमयशोऽञ्जनमादधानैः
किंचित्प्रकाशितनिशान्तदशान्तदीप्रैः ॥ ३७ ॥
भाखन्मयूखविजिगीषुयदङ्गजातनैसर्गिकाङ्गभयभास्वदभीषुजालैः