________________
काव्यमाला ।
त्रिधापि वाता दर्शिताः । अपि पुनविभाते दिनोदये समये आजानेयाः कुलीनाश्वा आननानां वक्राणां कम्पितैर्वलनैरूर्वाधःकरणेहरेरिन्द्रस्य रवेवा यांस्तुरझान् । 'हरि विदित्वा हरिभिश्च वाजिभिः' इति रघुवंशे । इति प्रसिद्धोच्चैःश्रवस्येकस्मिन्नश्वेऽपि इन्द्रस्याश्वबाहुल्यम् । तथा-'पर्य(ज)न्यहर्यश्वऋभुक्षिबाहु-' इति हैम्याम् । उच्चैःश्रवाः श्वेताश्वः । हरयो नीलवर्णा अश्वा यस्येत्यन्यहरिद्वर्णवाजिंसद्भावः प्रोक्तः । रवेस्तु तुरङ्गमानां सप्तत्वेन बाहुल्यमेवास्ते । आह्वयन्ते आकारयन्ति । किमुत्प्रेक्ष्यते । जातेरवानां कुलस्य स्नेहात्प्रीतेः मिलितुमिह भुवि उच्चैर्गमनशक्त्यभावामीमण्डले स्वसमीपे वा किमाझ्यन्ते ॥
चन्द्राननेऽमन्दमरन्दबाप्पा कुमुदती मुद्रितनेत्रपत्रा । .. .. विधोवियोगादिव कोशमध्यावरुद्धगुञ्जन्मधुपैविरौति ॥ १.३९ ॥
चन्द्रानने संपूर्णपावणेन्दुरिव वदनं यस्याः । अथवा चन्द्रवदाल्हादकं मुखं यस्याः संबोधने नाथीदेवि, कुमुदती कैरविणी कोशमध्ये स्वकुमुदमुकुलान्तराले अवरुद्धैश्चन्दास्तेन बद्धमुकुलमध्य एव स्थितैः । तथा-गुञ्जद्भिः शब्दायमा मधुपैभृङ्गविरोति शब्दायते। इवोत्प्रेक्ष्यते । विधोर्भर्तुश्चन्द्रमसो वियोगाद्विरहादिव रोदिति । रोदनलक्षणमाह-किंभूता कुमुदती । अमन्दो बहुलो यो मरन्दो मधु स एव बाष्पो नेत्राम्बु अश्रुजलं यस्याः। पुनः किंभूता । मुद्रिते निमीलिते नेत्रे एव तत्तुल्ये वा पन्ने यस्याः सा ॥
उपगतमिहान्यस्माद्द्वीपात्प्रगेऽधिपतिं त्विषा
मनुरतिपरीरम्भारम्भप्रसारिकरं पुरः। विकचवदना राजीविन्यः स्फुटोद्गतकण्टका
नयनकमलैरालोकन्ते वशा इव वल्लभम् ॥ १४० ॥ हे स्वामिनि, राजीविन्यः पद्मिन्यः प्रगे प्रभाते त्विषां पति सूर्य नयनान्येव तत्त. ल्यैर्वा कमलैः । कमललोचनैरित्यर्थः । आलोकन्ते पश्यन्ति । का इव । वशा इव । यथा कामिन्यो वल्लभं स्वकान्तं वीक्षन्ते । किंभूतं सूर्य वल्लभं च । अन्यस्मादपरस्माद्वीपाद्वन्दिरात् । 'तेजोवसाने व्रजति द्वीपान्तरमहर्मणिः' इति सूक्तोक्तेः । तथा-'द्वीपमन्तर्जले तटम्' इत्युक्तेश्च । इतरस्माकस्माच्चिद्दीपान्तरात् इह द्वीपे उपगतमागमने । 'गमनार्थाः समभ्युपाड्भ्यः पराः कथिताः । 'उपगतोऽपि च मण्डलनाभिताम्' इति रघुवंशे । उप. गतः प्राप्त इति तदृत्तिः । पुनः किंभूतम् । पुरोऽने अनुरत्या अनुरागेण । 'रागोऽनुरागो. ऽनुरतिः' इति हैम्याम् । यः परीरम्भ आलिङ्गनं तस्यारम्भाय उपक्रमार्थ प्रसारिण: प्रसरण - शीलाः कराः किरणा इस्ताश्च यस्य । किंभूताः पभिन्यो वशाश्च : विकचवदना विकसितमुखाः । पुनः किंभूताः । स्फुटं प्रकटमुद्भूताः प्रादुर्भताः कण्टका अङ्करविशेषाः । ना. लीतः कण्टकाः स्युः । 'कण्टकः पद्मनाले' इति वचनात् । तथा-उद्तो रोमाञ्चो या. साम् । 'रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम्' इति हैम्याम् । स्त्रीपुरुषयोरपि विशेष णानि स्युः ॥ इति सखिकथितरात्रिविरामविभातदिनकरोदयवर्णनम् ॥