________________
काव्यमाला।
स चक्रिणां भारतभूमिभामिनीविशेषकाणां वृषभाङ्गजोऽग्रणीः । तदीयवप्तेव जिनावनीभुनामभूत्सुरश्रेणिनिषेवितक्रमः ॥ ११२ ॥ स जगद्विख्यातो वृषभस्यादिदेवस्याङ्गजः सनुर्भरतचक्री भारतं भरतक्षेत्रं तस्य भूमिः सैव भामिनी स्त्री तस्या विशेषकाणां तिलकानां भरत-सगर-मघवा-सनत्कुमार-शान्तिकुन्थु-अर-सुभम-पद्म-हरिषेण-जय-ब्रह्मदत्ताभिधानानां द्वादशसंख्याकानां चक्रिणां मध्ये अग्रणीर्मुख्यः प्रथमो वा अभुद्वभूव । क इव । तदीयवप्तेव । यथा तस्य भरतस्यायं तदीयः वप्ता पिता युगादिदेवः । जिनानां सामान्यकेवलिनाम् । अथ वा ऋषभ-अजितशंभव अभिनन्दन-सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमल-अनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पाश्व-वर्धमाननाम्नां चतुर्विशतितीर्थकृतां मध्ये आदिमः अजायत । किंभूतो भरतस्तत्पिता च। सुराणां षोदशसहस्राङ्गरक्षकयक्षमुख्यानां चतुःषष्टिदेवेन्द्रादीनां च श्रेणिभिनिषेवितौ परिचिती क्रमौ चरणौ यस्य ॥
य आदिमोद्वारकरो जिनालयं व्यधापयन्मूर्धनि सिद्धभूभृतः। .. समग्रतीर्थेष्वपि सार्वभौमताममुष्य वक्तुं किमु हेमशेखरम् ॥ ११३ ॥
आदौ भवः अपिणीततीयारपर्यन्ते । प्रथमस्योद्वारस्य चैत्यस्थापनारूपस्य करः कारकः अत एव यो भरतचक्री सिद्धभूभृतः शत्रुजयस्य मूर्धनि ऋषभकूटनामनि शिखरे जिनालयम् ऋषभदेवप्रासादं व्यधापयद्वार्धकिरलपावें कारयति स्म। किमत्प्रेक्ष्यते । अमुष्य श्रीशत्रुजयगिरेः लमगेषु त्रिजंगद्वासिषु तीर्थेषु सार्वभौमतां चक्रवर्तित्वं वक्तुं कथयितुम् । जनानां पुर इति शेष: । हेमशेखरं सुवर्णोत्तंसं किमु कारयति स्म ।।
मृगाक्षि सोपारककुल्यपाकयोरमूल्यमाणिक्यविनीलरत्नयोः । खतातमूर्ती भरतेन कारिते दृशाविवैते भरतावनीश्रियः ॥ ११४ ॥ मृगवदक्षिणी नयने यस्यास्तस्याः संबोधने हे हरिणलोचने, तेन भरतेन अमूल्ययोर्महर्ययोर्मूल्यं ज्ञातुमपि कर्तुमपि केनाप्यशक्ययोर्माणिक्यं पद्मरागमणिरन्यो वा कश्चिन्मणिविशेषः विनीलरत्नं मरकतमणिस्तयोः स्वतातस्य ऋषभदेवस्य मूर्ती प्रतिमे कारिते निर्मापिते । कयोः पुरयोः । सोपारकनाम शत्रुजयतलहटिकायां पतनम्, कुल्यपाकनामान्यनगरम्, तयोः पुरयोः । अद्यापि विद्यते इत्यध्याहारः । उत्प्रेक्ष्यते । भरतावनाश्रियो भरतक्षेत्रक्षोणिलक्ष्म्या एते प्रतिमे दृशौ नेत्रे इव ॥
तथा चतुर्विंशतितीर्थकृगृहं धराधवोऽष्टापदभूध्रमूर्धनि । . व्यधापयच्छाश्वतसार्ववेश्मवत्तदद्य यावद्धृववद्वितिष्ठते ॥ ११५ ॥ तथा पुनः स धराधवो भरतभूपतिरष्टापदभूध्रमूर्धनि कैलाशशैलशिखरे तुल्गनासामस्वस्ववर्णप्रमाणपद्मासनाद्यङ्कितचतुर्विंशतितीर्थकृत्प्रतिमालंकृतसिंहनिषद्या नाम चतु.