________________
काव्यमाला |
पञ्चमनाम्नो रागस्य स्वनो ध्वनिर्याभ्यां तौ । पिकी च पिक्रश्च पिकौ । 'पुमान् स्त्रिया तक्षणश्वेदेव विशेषः । स्त्रिया सहोतौ पुमान् शिष्यते न स्त्री, स्त्रीपुंसलक्षणश्चेदेव विशेषः । ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ तलक्षणः किम् । कुक्कुटमयूर्थी' इति प्रक्रिया कौमुद्याम् । तिन पिकीशब्दस्य लोपे पिकाविति । किंचिचिरं तिष्ठतः ॥
मुदाथ नाथी शयनीयमन्दिरं क्रमेण संक्रन्दनसद्मसुन्दरम् ।
व्यभूषयत्किं पुरुषप्रभोरिवारविन्दहन्दिरकन्दरोदरम् ॥ ८७ ॥ अथ स्वार्थकथनतत्तद्वार्तानन्तरं नाथी मुद्दा प्रमोदेन क्रमेण भर्तृविसर्जनगृहमार्गागमन परिपाट्या शयनीयमन्दिरं स्वशय्यागृहं व्यभूषयदलंकरोति स्म । किंभूतम् । संक्रन्दनः शक्रस्तस्य सद्म मन्दिरं तत्संबन्धि वा वैजयन्तप्रासादस्तद्वत्सुन्दरं रमणीयमिति गर्भितोपमा । केव । अरविन्ददृगिव । यथा किंपुरुषाणां किंनराणां प्रभोरिन्द्रस्य प्रकृष्ट किंनरस्य कस्यचिद्वा पत्नी मन्दरस्य मेरोरिन्द्रकीलशैलस्य का कन्दराया गुहाया उदरं मध्यं विभूषयति । किंनराणामवस्थानं मन्दरकन्दरासु वर्ण्यते । यथा चम्पूकथायाम् — 'मन्दं मन्दरकन्दरासु शयितानुत्थापयन्किनरान्' इति ॥ इति गजस्वप्नविचारकथनस्वशयनसद्मगमनम् ॥
सुखं स्वकीये सदने निषेदुषी मुदं महास्वप्नजुषं प्रपेदुषी ।
७०
इदं कलाकेलिमरालमानसे व्यचिन्तयत्सा विदुषीव मानसे ॥ ८८ ॥
सा नाथी मानसे स्वचित्ते इदं वक्ष्यमाणं व्यचिन्तयद् विमृशति स्म । केव । विदुीव । यथा पण्डिता हृदये शास्त्रार्थादि विचिन्तयति । किंभूते मानसे । कलाकेलिः कामः स एव मरालो राजहंसस्तस्य क्रीडार्थे वासार्थ वा । 'मानसौका:' इति हमैविच - नातू मानसनानि सरसि । सा किंभूता । सुखं निराधिव्याधिकं यथा स्यात्तथा स्वकीये निजे शयनीयसदने मन्दिरे निषेदुषी उपविष्टा । पुनः किंभूता । महानद्भुत आश्चर्यकारी यः स्वप्नः स्वापावस्थायामैरावणवारणविलोकनं तं जुषते सेवते तादृशीं महास्वनसंजातां मुदं प्रीतिमानन्दं प्रपेदुषी ॥
पुनः सृजन्त्यां मयि मुद्रणां दृशोः परैरपस्वप्नविजृम्भितैरसौ ।
निहन्यतां मासहजैरिव ग्रहैस्त्रिकोणकेन्द्रोपगतः शुभग्रहः ॥ ८९ ॥ पुनर्द्वितीयवारं दृशोर्लोचनयोर्मुद्रणां निमीलनम् । निद्रामित्यर्थः । सृजन्त्यां कुर्वत्यां मयि परैरन्यैरपस्वप्रविजृम्भितैर्दुष्टस्वप्रदर्शन विलसितैरसौ गजदर्शनलक्षणः शुभः स्वप्नो मानिहन्यतां मा व्यर्थीक्रियताम् । क इव । शुभग्रह इव । यथा असहजैः शत्रुभूतैर्भीममन्दादिभिर्ब्रहैः खरैर्नवपञ्चमं त्रिकोणं प्रथमचतुःसप्तमदशमाख्यानि केन्द्राणि तेषु भवनेषु गतः प्राप्तः शुभो गुरुबुधादिः प्रशस्यग्रहो निहन्यते निर्बलीक्रियते ॥
इदं विमृश्येयमजूहह्वत्ततः सखीरशेषाः स्वकपारिपार्श्विकाः । द्विरेफगुञ्जारवमञ्जुवादिनी वसन्तलक्ष्मीः पिककामिनीरिव ॥ ९०