________________
काव्यमाला।
हंसनपुरयोः'। सह हंसकैमराईसकाभ्यां नुपुराभ्यां वा वर्तते या । पुनः किंभूता। तरङ्गी अर्थादुभयपार्श्ववर्तिनौ कल्लोलौं तावेव च तत्तुल्यौ बाहू भुजौ यस्याः ।। विजृम्भिजाम्बूनदपद्मनिष्पतत्परागपिङ्गीकृतवारिशालिनि । । समं करिण्या करिणेव पङ्कजाकरेऽमुनाक्रीडि कुरङ्गचक्षुषा ॥ ५९॥ अमुना कुरामहेभ्येन कुरङ्गचक्षुषा खमृगलोचनया आत्मस्त्रिया समं कदाचित्पङ्कजाकरे कमलकलिततटाके अक्रीहि क्रीडां चक्रे । किंभृते पङ्कजाकरे । विजृम्भीणि विस्मराणि जाम्बूनदानि सौवर्णानि यानि पद्मानि तेभ्यो निष्पतद्भिनि:सरद्भिवंगलद्भिः परागे रजोभिः पिङ्गीकृतेन पीततां प्रापितेन वारिणा जलेन शालते शोभते इत्येवंशीलस्तस्मिन् । कनककमलसद्भावश्चम्पूकथोक्तेन प्राग्दर्शितोऽस्तीति । केनेव । करिणेव । यथा करिणा हस्तिना करिण्या स्वहस्तिन्या समं विन्ध्याचलजलाशये क्रीड्यते ॥
स्मितारविन्दोदयदिन्दुविभ्रमादिवाम्बुलीलासमये तयोर्मुखे । . विमुग्धसारङ्गचकोरशावका, मरन्दपीयूषपिपासयामजन् ॥ ६ ॥ विमुग्धा अचतुराः सारङ्गाणां भृङ्गाणाम् । 'सारङ्गो हरिणे शैले कुअरे चातके खगे। शबले चिश्चिरीके च' इत्यनेकार्थतिलके । चकोराणां ज्योत्स्नाप्रियाणां शावका बाला अम्बुलीलासमये जलक्रीडाकरणव्यतिकरे तयोर्नाथीकुंरामहेभ्ययोर्मुखे वक्रे अभजन सेवन्ते स्म । कया । मरन्दानां मधूनां पीयूषाणाममृतानां च पिपासया पातुमिच्छया । इवोत्प्रेक्ष्यते-स्मितारविन्दस्य विकसितकमलस्य तथा उदयत उदयं गच्छत इन्दोश्चन्द्रस्य च भ्रमाद्धान्तः । 'कणे हत्य चकोरीणां गणः पीत्वा सुधासवम् । अजायत मदेनेव गुञ्जापुञ्जारुणेक्षणः ॥' इति चकोराणां सुधापानं वस्तुपालकीतिकौमुद्याम् ॥
प्रफुल्लकङ्केल्लिरसालमल्लिकाकदम्बजम्बूनिकुरम्बचुम्बिते । अलीव साकं सुदृशा स निष्कुटे कदापि रेमे श्रितसूनशीलनः ॥ ६१॥ स महेभ्यः कदापि कस्मिन्नपि समये सुदृशा स्वस्त्रिया साकं सार्धे निष्कुटे गृहारामे रेमे कीडति स्म । क इव । अलीव । यथा भ्रमरो भ्रमर्या सममारामे रमते। किंमतः । श्रितं निर्मितं सूनानां कुसुमानां शीलनमवचयमालाग्रन्थनप्रियावतंसीकरणादि येन । भृङ्गोऽपि पुष्पसेवी। किंभूते निष्कुटे । प्रफुल्लाः कुसुमिता ये ककेल्लयोऽशोकाः, रसालाः सहकाराः, मलिका विचकिलाः, कदम्बा नीपाः धाराकदम्बाश्च, जम्ब्वः श्यामफलाः प्रसिद्धाः तेषां निकुरम्बं वृन्दं तैन चुम्बिते कलिते ॥
रसालसालस्य तले विलासिना प्रणीय वीणां क्वणनानुवादिनीम् । अगीयत श्रोत्रसुधारसोपमं क्वचिन्मृगाक्ष्या सह किंनरेन्द्रवत् ॥ ६२ ॥ विलासिना क्रीडाशीलेन कुंरासाधुना मृगाक्ष्या स्वप्रियया नाथीदेव्या सह कुत्रापि कस्मिन्नपि वनप्रदेशे रसालसालस्य सहकारतरोस्तले अधोभूमौ श्रोत्रयोः कर्णयोः सुधा