________________
२ सगः]
.
हीरसौभाग्यम् ।
यस्या एणचक्षुषो मृगेक्षणाया रोमावलिलोमलेखा। इवोत्प्रेक्ष्यते-आत्मजन्मना स्मरण हरिन्मणोनां मरकतरत्नानाम् । नीलरत्नघटित इत्यर्थः । सेतुः पद्येव व्यधायि निष्पादितः । कया। तनुलता नाथीकाययष्टिः तस्या अगाधमतिशायि अलब्धमध्यं तथा तरङ्गितं कलोलितं यत् प्रभाणां कान्तीनां प्रतानं वृन्दः स एव पाथोधिः समुद्रः तस्य पानीयानां तितीर्षया तरीतुमिच्छया । अथ वा "रिरंसया' इति पारे तु समुद्रजले सहावरोधेन खेलि. तुमिच्छया। श्रूयते हि 'स्तम्भतीर्थे खासमोहल इति नाम्नः स्वमन्दिराजलधिजले खेलनार्थी केनापि पातिसाहिना सेतुः कारितोऽभूतदाकृतिरधुनापि किंचित् दृश्यते श्रूयते च' इति । अत्रोत्प्रेक्षार्थे स्मरेण, वास्तवार्थे त्वात्मजन्मना धात्रा। 'मनःशृङ्गारसंकल्पात्मनो योनिः' इति स्मराभिधानम् । तथा 'नाभिपद्मात्मभूरपि' इति धातुरभिधा । इदं द्वयमपि हैम्याम् ॥
द्रवीभवद्भरिसिताभ्रचन्दनप्रगल्भवाल्हीककुरङ्गनाभिभिः । विलिप्य काचित्कुतुकात्पृथग्वलीः कदाचिदेतामिदमूचुषी सखी ॥४३॥
काचित्सखी कदाचित्प्रसाधनसमये एतो नाथीदेवीमिदमग्रे वक्ष्यमाणमूचुषी कथितवती । किं कृत्वा । कुतुकात्कौतुहलादलीरुदरवर्तिमांससंकोचलक्षणा रेखा विलिप्य लिप्वा । काभिः । द्रवीभवन्त्यः सपङ्कजलभावं भजन्त्यो याः भूरिः प्रचुरः, सिताघ्रः कर्पूरो यत्र ताइक्चन्दनं श्रीखण्डम्, तथा प्रगल्भं मनोझं वाल्हीकं कुङ्कमम्, तथा कुरङ्गनाभिः क. स्तूरिका, ताभिः । कथम् । पृथक् एकां वली चन्दनेन, द्वितीयां वली कुङ्कमेन, तृ. तीयां वलि कस्तूरिकयेत्यर्थः । इदं किमुवाच तदेवोच्यते ॥
त्वया स्वकीयों सुमनस्तरङ्गिणी वचोविलासेन पुनः सरस्वती। यमस्वसा कुन्तलभङ्गिभिर्जिता भजन्त्युपेत्य त्रिवलीछलादिव ॥ ४४ ॥ हे सखि, त्वया भवत्या स्वकी- अद्वैतपतिव्रताव्रतोद्भूतात्मयशसा. सुमनस्तरङ्गिणी सुरसरिद्या । पुनर्वचोविलासेन वचनचातुर्येण सरस्वती ब्रह्मपुत्री । पुनः कुन्तलानां केशानां भङ्गिभी रचनाभिर्यमस्वसा यमुना तिस्रोऽपि नद्यो जिताः सन्त्य उपेत्य पार्श्वे आगत्य त्रिवलिच्छलादुदरस्थवलित्रिककपटाद्भजन्तीव सेवन्ते इव । इत्यनयासाधारणयोत्प्रेक्षया तत्तनलतायां त्रिवेणीसंगमोऽपि सूचितस्तेन च सा तीर्थभूतापि प्रतिपादिता । तीर्थ च महापुरुषागमनं संभवत्येव । तेन महापुरुषस्य हीरविजयसूरेस्त्रावतरणं युक्तमेवेति ॥ युग्मम् ॥ निरीक्ष्य लक्ष्मी निजभर्तृमातरं स्थितां सदाध्यास्य विजम्भि पङ्कजम् ।. इवानुकतुं रतिरात्मनापि तां यदीयनाभीनलिने निषेदुषी ॥ ४५ ॥ रतिः कन्दर्पपत्नी यदीयनाभीन लिने नाभाटुन्दकूपिकाकमले। 'नाभिः स्यात्तन्दकृषिका' इति हैम्याम् । 'नाभीविले पात्पुनरुक्तयन्तीम्' इति नैषधे । निषेदुषी स्थितवती । इवोत्प्रेक्ष्यते-आत्मना स्वेन स्वयमपि लक्ष्मीमनुकत कमलायाः सदृशी भवितुमिव ।