________________
काव्यमाला ।
विजित्य कान्त्या जगृहे क्रुधा यदाननेन लक्ष्मीः क्षणदापतेस्तथा । हृदस्फुटच्चेन्न कुतस्ततः सुधा निरित्वरी क्षुद्रतदङ्करन्ध्रतः ॥ ३२ ॥ यदाननेन नाथीमुखेन कान्त्या स्त्रशोभया। 'आभा राढाविभूषा श्रीरभिख्याकान्ति. विभ्रमाः' इति हैं म्याम् । तथा—'कान्तिः शोभाकामनयोः' इत्यनेकार्थः । कामना इच्छा । 'प्रभायां काव्यगुणे च कान्तिः' इति तदवचूरिः । विजित्य क्षणदापतेनिशापतेश्चन्द्रस्य तथा तेन प्रकारेण क्रुधा स्वस्पर्धिभावोद्भूतकोपेन लक्ष्मी गृहें आदता। तथा कथम् । यथा येन स्ववैभवादानाविर्भूताद्वैतदुःखातिरेकेण तस्य चन्द्रस्य हृत् हृदयमस्फुटत् स्फुटितम् इति चेन्न भवेत्तदा कुतः कारणात् क्षुद्रो लघुर्यस्तस्य चन्द्रस्याङ्कः कलङ्कः स एव रन्धं छिद्रं ततस्तस्मात्ततश्चन्द्रात्सुधा निरित्वरी निर्गमनशीला स्यात्.॥ . समं यदास्येन मृधे महौजसा निरोजसाभाजि किमेणलक्ष्मणा ।
यतोऽमुनाद्यापि तदङ्कबोधिका व्यमोचि नाभ्रभ्रमणी कदाचन ॥३३॥ महौजसा महाकान्तिना महाबलेन वा महाप्रतापेन वा । 'ओजो दीप्तिप्रकाशयोः । अवष्टम्भे बले धातुतेजसोः' इत्यनेकार्थः । 'प्राणः स्थामतरःपराक्रमबलद्युम्नानि शौया. जसी' इति हैम्याम् । ओजःशब्देन प्रतापोऽप्युच्यते । यथा नैषधे-'तदोजसस्तयशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा। तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥' इति । यदास्येन नाथीमुखेन समं सार्ध मृधे संग्रामे निरोजसा निर्वलेन एणलक्ष्मणा मृगलाञ्छनेन चन्द्रेण अभाजि भग्नम् । पलायितमित्यर्थः । यतो यस्मा. कारणात् अमुना विधुना तस्य भङ्गस्य अङ्कश्चिहं तस्य बोधिका ज्ञापयित्री कथयित्री वा । 'निजत्रिनेत्रावतरत्वबोधिका' इति नैषधे । कदाचनापि कस्मिन्नपि प्रस्तावे । अद्ययाव. दित्यर्थः । अभ्रे आकाशे भ्रमणी पर्यटनम् । 'विधेः कदाचिद्रमणी विलासे' इति नैषधे । नभसि भ्रान्तिन व्यमोचि न मुक्ता । नेत्यव्ययं निषेधे ॥ त्रिनेत्रनेत्रानलभस्मितात्मभूप्रभोजगन्निर्जयवादनोचितः । जगत्कृतादाय यदङ्गनिर्मिती किमेष कम्बुर्गलकन्दलीकृतः ॥ ३४ ॥ जगत्कृता विश्वविधायिना धात्रा यदङ्ग निर्मिती नाथीदेहनिर्माणे। किमुत्प्रेक्ष्यते-एष प्रत्यक्षः कम्बुः शङ्खो गलकन्दलीकृतः कण्ठपीटता प्रापित इव । किं कृत्वा । आदाय गृहीत्वा अर्थात् कम्बुम् । कस्य । त्रिनेत्रः शिवस्तस्य नेत्र तृतीयलोचनं तस्यानलेन कोपहिना भस्मितस्य ज्वलितस्य आत्मभूप्रभोः स्मरराजस्य । 'आत्मभृः स्मरवेधतो.' इत्यनेकार्थः । किंभूतं कम्बुम् । जगतां सुरासुरनराणां निर्जये वादनस्योचितो योग्यः॥
अनन्यलावण्यतरङ्गचङ्गतां नितम्बलीलापुलिनं च बिभ्रती । धुनीव रोधोविहसन्मृणालिकां भुजाद्वयीं या विभरांबभूवुषी ॥ ३५ ॥ या नाथी भुजाद्वयीं बाहुयुगलीम् । 'अस्तं यान्ति समस्तबाहुजभुजातेजःसहस्रांशवः'