________________
काव्यमाला। महाव्रताणुव्रतधारकादिसंघो यस्य, तथा सहनेहेन देवे गुरौ स्वजनादिषु प्रीत्या वर्तते यः सः, तथा गुणैरौदार्यादिभिरग्र्यां मुख्यां वृत्तिं वाणिज्यादिकामाजीविका वा बिभर्तीति । 'वृत्तिस्तु वर्तने । केशिक्यादौ जीवने च' इत्यनेकार्थः । सर्वेष्वप्यप्रेसरो वा। पश्चात्कर्मधारयः । पुनः किंभूतः । तमसामज्ञानानां पापानां वा प्रतीपः शत्रुः स्वयं पु. ण्यकर्माण्याचरन् परानपि धर्मे दृढीकरोति । पुनः किंभूतः । स्वस्यात्मनः कुलमौकेशवं. शस्तत्र प्रकाशकृत् उद्योतकर्ता । स्वेन सूरिसिंहेन सूनुना वा । दीपोऽपि पात्रकलितः, मेहेन तैलेन युक्तः । 'तैलं होऽभ्यञ्जनं च' इति हैम्याम् । तन्तुप्रधानदेशाधारकः । 'वृत्तिवर्तिश्च तद्दशा' इति हैम्याम् । तथा ध्वान्तोच्छेत्ता, यस्मिन् गृहे येन वा प्रबोधितस्तदेव तस्य वा गेहं तत्रोद्योतकारकः ॥
धुनीधवं येन गभीरनिःस्वनैर्विजित्य मुक्तामणिविद्रुमावलिः । . ततः समग्रा जगृहे तदाद्यसौ बभूव कि निःस्वतया जडाशयः ॥१२॥ येन कुंराव्यवहारिणा गभीरैः सजलजलघरगर्जितसान्द्रमधुरैनिःस्वनैः स्वशब्दै(नी. घवं नदीपतिं समुदं विजित्य ततः समुद्रातू मुक्ताफलानि मुक्तामणयो रत्नानि विविध. जातीनि विद्रुमाः प्रवालानि तेषामावलिः श्रेणि: । समग्रा समस्तापि जगृहे गृहीता। किमुत्प्रेक्ष्यते-असौ समुद्रस्तदादि तं दिनमारभ्य निर्गतं.स्वं समप्रद्रव्यं यस्मात्स नि:स्व. स्तस्य भावस्तया निःस्वतया दरिद्रत्वेन जडः किं कर्तव्यतामूढ आशयश्चित्तं यस्य । अथ किं करिष्यते, क गमिष्यते, कस्य पुनः पूत्करिष्यते, कथं वा स्वं प्रत्यानेष्यते इति वि. मर्शानभिज्ञो बभूव । डलयोरैक्यादियं घटना ॥ .
व्यमोचि नामुष्य कदाचिदन्तिकं रथाङ्गपाणेरिव पद्मसद्मना । गुणव्रजेनेव नियन्त्र्य मुक्तया वितीर्णवाचेव यदृच्छयाथ वा ॥ १३॥ पद्मे कमले सन गृहं यस्याः सा तया पद्मसद्मना लक्ष्म्या अमुष्य कुंरासाधोः कदाचिदपि कस्मिन्नपि समये अन्तिकं समीपं न व्यमोचि न मुक्तम् । कस्येव । रथाङ्गपाणेरिव । यथा रथाङ्गं चक्रं पाणौ हस्ते यस्य तस्य कृष्णस्य स्वभर्तृत्वेन कदाचिदपि काले पतिव्रतया श्रिया पार्श्व न विमुच्यते नैव त्यज्यते । उत्प्रेक्ष्यते-अनेन व्यवहारिणा गुणा. नामौदार्यधैर्यगाम्भीर्यादीनां रश्मीनां वा व्रजेन समूहेन । 'गुणो भीमे हृषीके ज्यारज्जुशौर्यादितन्तुषु । सूदेऽप्रधाने संध्यादौ निर्दोषे रूपसत्त्वयोः ॥' इत्यनेकार्थतिलकः । नियत्र्य निर्बध्येव मुक्तया रक्षितया । अथ वेति पक्षान्तरे । उत्प्रेक्ष्यते-यदृच्छया तन्महेभ्यभू. रिभाग्यप्राग्भारप्रेरितस्वेच्छया वितीर्णा विश्राणिता दत्ता वाक् वाग्वधो यया तादृशयेव । वाचं दत्त्वा स्थितयेत्यर्थः ॥ इति कुंरासाहः ॥
मनः समुत्कण्ठयतस्तनूमतां पयःप्लवं शैवलिनीपतेरिव। . अमुण्य नाथी सुमुखी बभूवुषी कुमुद्वतीव द्विजचक्रवर्तिनः ॥ १४ ॥ अमुष्य कुंरासाइस्य नाथीति नाम्ना सुमुखी प्रसन्नवदना पनी बभूवुषी संजाता ।