________________
४०
काव्यमाला |
यस्मिन्विभान्ति स्म विलासवत्यः स्मरावरोधभ्रममुद्वहन्त्यः । किं शक्तयो मन्मथमेदिनीन्दोरमूरमोघास्त्रिजगद्विजेतुः ॥ १२९ ॥ यस्मिन् पुरे विलासवत्यः प्रमदा विभान्ति । किं कुर्वन्त्यः । स्मरावरोधः कन्दर्पान्त:पुरं रतिस्तस्य भ्रमं भ्रान्तिम् । 'स्मरावरोध भ्रममावहन्ती' इति नैषधे दमयन्तीवर्णने । उद्वहन्त्यो मित्रत्यः । किमुत्प्रेक्ष्यते - मन्मथमेदिनीन्दोमंदननरेन्द्रस्य अमूः प्रत्यक्षाश्चक्षुर्लक्ष्या अमोघा अवन्ध्याः सफलाः शक्तयः प्रहरणविशेषाः । किंभूतस्य मन्मथस्य । त्रिजगतस्त्रिभुवनस्यापि निजेतुः पराभवशीलस्य ॥
त्यक्ताश्रवःकञ्चुकिकामुकाभिः सकर्णयन्नागररागिणीभिः । स्वमन्दिरात्कुण्डलिनीभिरस्मिन्किमीयुषीभिः शुशुभेऽङ्गनाभिः ॥ १२६ ॥ अस्मिन् नगरे अङ्गनाभिः शुशुभे । किमुत्प्रेक्ष्यते - स्वमन्दिरानिज निकेतनान्नागलोकादीयुषीभिरागताभिः कुण्डलिनीभिर्नागाङ्गनाभिरिव । किंभूताभिः । त्यक्ता उज्झिता अश्रवसः । अकर्णबधिरा इत्यर्थः । कञ्चुकिनः सौविदल्लाः । कुब्जवामना इत्यर्थः । अथवा कृत्रिमक्लीयाः कामुकाः कामयितारः कान्ता याभिस्ताभिः । पुनः किंभूताभिः । सकर्णाः प्राज्ञाः श्रोतारो वा यस्याः पुर्या नांगराश्छेकास्तेषु रागः स्नेहातिशयो विद्यते यासां तास्ताभिः । तेष्वनुरागयुक्ताभिरित्यर्थः ॥
भान्ति स्म यस्मिन्सुमनोभिरामा रामा रमाघः कृतकामरामाः । स्वस्पर्धिनं येन रुषेत्र देवगृहं निगृह्याप्सरसो गृहीताः ॥ १२७ ॥ यस्मिन् नगरे रामा नागर्यो भान्ति स्म । किंभूताः । सुमनोभिः कुसुममालिकाभिः, अथवा सुमनस्त्वेन सतीत्वेन निष्पापत्वेन वा अभिरामा मनोहराः । पुनः किंभूताः । स्माभिः वपुः प्रियरूपकसुपमाभिरधः कृते हीने विहिते तिरस्कृते कामस्य मदनस्य रामे रतिप्रीती याभिस्ताः । इवोत्प्रेक्ष्यते — येन प्रह्लादपुरेण रुषा कुधा स्वस्पर्धिनं निजसमृद्ध्या सार्धं स्पर्धाविधायिनं देवगृहं स्वर्ग निगृह्य पराजित्य वन्दीकृत्य गृहीता अप्सरसः स्वर्गवध्व इव ॥
किमग्रदूत्यो मदनावनीन्दोः सख्योऽथ वा स्वर्वरवर्णिनीनाम् । भुजंगमीनां किमुतानुवादा यत्राजनेत्रा मदयन्ति चेतः ॥ १२८ ॥ यत्र पुरे अब्जनेत्राः कमललोचनाः सुदृश: चेतः अर्थानां मनः मदयन्ति उन्मायुक्तं कुर्वन्ति । किमुत्प्रेक्ष्यते-- मदनावनीन्दोः स्मरराजस्य किम् अग्रदूत्यः प्रथमसंदेशहारिका इव । अथ वा स्वः स्वर्गस्य वरवर्णिनीनां प्रधानस्त्रीणां स्म्भाघृताचीतिलोत्तमाप्रमुखाणाम् अथवा पौलोमीप्रभृतीनां सख्यो वयस्यः किमु । उत पुनः । भुजंगमीनां नागाङ्गनानामनुवादा अनुकारा इव ॥ इति नागर्यः ॥
इति प्रल्हादपुरवर्णनम् । तत्रास्ति भूमान्महमुन्दनामा स्थामैकभूर्भूवलयैकवीरः । वधूर्नवोढेव दिने दिने भूः श्रियं दधौ यत्करपीडितापि ॥ १२९ ॥