SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सदप्यग्राह्यरूपत्वादसद्वत् प्रतिभाति नः । विशेषानपि सामान्याद्यदा भेदेन बुद्ध्यते । । ६१ ।। तदा सामान्यमात्रत्वमेवमेव प्रतीयते । यदा तु शबलं वस्तु युगपत् प्रतिपद्यते ।। ६२ ।। तदाऽन्याऽनन्यभेदादि सर्वमेव प्रलीयते । नच तत्तादृशं कश्चिच्छब्दः शक्नोति भाषितुम् ||६३ ।। सामान्यांशानपोद्धृत्य पदं सर्व प्रवर्त्तते । समस्तवस्त्वपेक्षां च पदार्थानामपोद्धृतिम् ।। ६४ ।। केचिदाहुरसद्रूपमंशत्वं तु न वार्यते । सारूप्यमेव सामान्यं पिण्डानां येन कल्प्यते ।।६५ ।। तेन सारुप्यशब्देन किं पुनः प्रतिपद्यते । समानरूपभावश्चेज्जातिः साऽस्माभिरिष्यते । । ६६ ।। • सादृश्यमथ सारूप्यं कस्य केनेति कथ्यताम् । न तावच्छाबलेयेन बाहुलेयाऽऽदयः समाः । । ६७।। विशेषरूपतो, येऽपि तत्संस्थानादिभिः समाः । शाबलेय इवेति स्यात्तत्र बुद्धिर्न गौरिव ।। ६८ ।। शाबलेयोऽयमिति वा भ्रान्त्या गौरिति नास्ति धीः । शाबलेयस्वरूपं च न गौरित्यवतिष्ठते । ६९ ।। तदन्येषु हि गोबुद्धिर्न स्यात् सुसदृशेष्वपि । दृश्यते सा न चाऽन्यत्र गोरूपं तत्र विद्यते ।। ७० ।। न चाऽन्यो गौः प्रसिद्धोऽस्ति यत्सादृश्येन धीर्भवेत् । न चाऽपि स इति ज्ञानं सदृशेष्वस्ति सर्वदा ।। ७१ ।। (स्याद्वादमञ्जरी में ॐ ॐ ॐ ॐ ४ २५३
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy