SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-१ पूर्वपक्षप्रबंध: अथाऽधुना तीर्थान्तरीयमतानि स्याद्वादमञ्जर्यां येन क्रमेण खण्डितानि तत्क्रमाऽनुसारं तानि प्रदर्श्यन्ते । यतः तत्प्रदर्शनमन्तरा खण्डनं न बुद्धिपथमारोहेद्यथायथम् । तत्र प्रथममौलूक्यमतं वैशेषिकाऽपरपर्यायमङ्गीकृतम् । तत्र चतुर्थश्लोके सामान्यविशेषयोः खण्डनं तदर्थं सामान्यविशेषयोः स्वरूपं वैशेषिकसूत्रभाष्याऽनुसारं दर्शयामः वैशेषिकसूत्रभाष्ये सामान्यनिरूपणम् । 'सामान्यं द्विविधं परमपरं चाऽनुवृत्तिप्रत्ययकारणम् । तत्र परं सत्ता महाविषयत्वात्, सा चाऽनुवृत्तेरेव हेतुत्वात्सामान्यमेव । द्रव्यत्वाद्यपरमल्पविषयत्वात् तञ्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाऽऽख्यामपि लभते ।।' ___ 'सामान्यं द्विविधं परमपरं च स्वविषयसर्वगतमभिन्नात्मकमनेकवृत्ति। । एकद्विबहुष्वात्मस्वरूपाऽनुगमप्रत्ययकारि स्वरूपाऽभेदेनाऽऽधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् । कथम् ? प्रतिपिण्डं सामान्याऽपेक्षं प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताञ्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणात् यदनुगतमस्ति तत्सामान्यमिति' ।। । वैशेषिकसूत्रभाष्ये-विशेषनिरूपणम् । 'नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषा एव ।।' 'अन्तेषु भवा अन्त्याः स्वाऽऽश्रयविशेषकत्वाद्विशेषाः । विनाशाऽऽम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथाऽस्मदादीनां गवादिष्वश्वादिभ्य- स्तुल्याऽऽकृतिगुणक्रियाऽवयंवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा । गौः शुक्लः शीघ्रगतिः पीनककुद्मान् महाघण्ट इति । तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याऽऽकृतिगुणक्रियेषु ( २१० i rituid स्याद्वादमञ्जरी
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy