SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 'पाणवहाईआणं पावट्ठाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो य विहि एस धम्मकसो ।।१।। बज्झाणुट्ठाणेणं जेण ण वाहिजए तयं णियमा । संभवइ य परिशुद्धं सो पुण धम्मम्हि छेउत्ति ।।२।। जीवाइ भाववाओ बंधाइ पसागहो इहं तावो । एएहिं परिसुद्धो धम्मो धम्मत्तणमुवेइ ।।३।।' तीर्थान्तरीयाऽऽप्ता हि न प्रकृतपरीक्षात्रयविशुद्धवांदिन इति तें महामोहान्धतमस एव जगत् पातयितुं समर्थाः, न पुनस्तदुद्धर्तुम्, अतःकारणात् । कुतः कारणात् । कुमतध्वान्ताऽर्णवाऽन्तःपतितभुवनाऽभ्युद्धारणाऽसाधारणसामर्थ्यलक्षणात्, हे त्रातत्रिभुवनपरित्राणप्रवीण ! त्वयि काक्वाऽवधारणस्य गम्यमानत्वात् त्वय्येव विषये न देवान्तरे, कृतधियः-करोतिरत्र परिकर्मणि वर्तते । यथा हस्तौ कुरु पादौ कुरु इति, कृता परिकर्मिता तत्त्वोपदेशपेशलतत्तच्छास्त्राऽभ्यासप्रकर्षण संस्कृता धीर्बुद्धिर्येषां ते कृतधियश्चिद्पाः पुरुषाः, कृतसपर्याः-प्रादिकं विनाऽप्यादिकर्मणो गम्यमानत्वात् कृता कर्तुमारब्धा सपर्या सेवाविधियैस्ते कृतसपर्या आराध्याऽन्तरपरित्यागेन त्वय्येव सेवाहेवाकितां परिशीलन्ति । इति शिखरिणीच्छन्दोऽलंकृतकाव्यार्थः ।।३२।। ॥ समाप्ता चेयमन्ययोगव्यवच्छेदंद्वात्रिंशिकास्तवनटीका ।।.. १. हरिभद्रसूरिकृतपञ्चवस्तुकचतुर्थद्वारे ... प्राणवधादीनां पापस्थानानां यस्तु प्रतिषेधः । ध्याना-ध्ययनादीनां यश्च विधिरेष धर्मकषः ।।१।। बाह्यानुष्ठानेन येन च बाध्यते तन्नियमात् ।। संभवति च परिशुद्धः स पुनर्धर्मे छेद इति ।।२।। जीवादिभाववादो बन्धादिप्रसाधक इह तापः । एतैः परिशुद्धो धर्मो धर्मत्वमुपैति ।।३।। इति छाया । २. अत्यष्टौ यनसभल्गाः शिखरिणो चैः ।। यमनसभलगा चैरिति षड्भिर्यतिः । हैमच्छन्दोऽनुशासने अ. २ सू. २८७. स्याद्वादमञ्जरी) k akakakistani २०७)
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy