SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ साऽऽत्मकः, छेदादिभिर्लान्यादिदर्शनात्, पुरुषाङ्गवत् । केषाञ्चित् स्वापाङ्गेनोपश्लेषादिविकाराच्च । अपकर्षवतश्चैतन्याद् वा सर्वेषां साऽऽत्मकत्वसिद्धिः आप्तवचनाच्च । त्रसेषु च कृमिपिपीलिकाभ्रमरमनुष्याऽऽदिषु न केषाञ्चित् साऽऽत्मकत्वे विगानमिति । यथा च भगवदुपक्रमे जीवानन्त्ये न दोषस्तथा दिग्मात्रं भाव्यते-भगवन्मते हि षण्णां जीवनिकायानामेतद् अल्पबहुत्वम्सर्वस्तोकास्त्रसकायिकाः । तेभ्यः सङ्ख्यातगुणाः तेजस्कायिकाः । तेभ्यो विशेषाधिकाः पृथ्वीकायिकाः । तेभ्यो विशेषाधिका अप्कायिकाः । तेभ्योऽपि विशेषाधिका वायुकायिकाः । तेभ्योऽनन्तगुणा वनस्पतिकायिकाः । ते च व्यावहारिका अव्यावहारिकाश्च 'गोला य असंखिज्जा असंखणिग्गोय गोलओ भणिओ । इक्किक्कणिगोयम्हि अणन्तजीवा मुणेयव्वा ।।१।। सिज्झन्ति जत्तिया खलु इह संववहारजीवरासीदो । एंति अणाइवणस्सइ रासीदो तत्तिआ तम्हि ।।२।।' इति वचनाद् यावन्तश्च यतो मुक्तिं गच्छन्ति जीवास्तावन्तोऽनादिनिगोद वनस्पतिराशेस्तत्राऽऽगच्छन्ति । न च तावता तस्य काचित् परिहाणिर्निगोदजीवानन्त्यस्याऽक्षयत्वात् । निगोदस्वरूपं च’समयंसागरांद् अवगन्तव्यम् । अनाद्यनन्तेऽपि काले ये केचिन्निर्वृत्ताः, निर्वान्ति, निर्वास्यन्ति च ते निगोदानामनन्तभागेऽपि न वर्त्तन्ते । नावर्तिषत, न वर्त्स्यन्ति । ततश्च कथं मुक्तानां भवाऽऽगमनप्रसङ्गः, कथं च संसारस्य रिक्तताप्रसक्तिरिति, अभिप्रेतं चैतद् अन्ययूथ्यानामपि । यथा चोक्तं वार्तिककारेण १. गोलाश्च असंख्येयाः असंख्यनिगोदोगोलको भणितः । एकैकस्मिन् निगोदे अनन्तजीवा ज्ञातव्याः ।। १ ।। सिध्यन्ति यावन्तः खलु इह संव्यवहारजीवराशेः । आयान्ति अनादिवनस्पतिराशेस्तावन्तस्तस्मिन् ।।२ ।। इति छाया २. अयं ग्रन्थो न विज्ञायते । २०० ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy