SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ वर्तमानविषयाद् ऋजुसूत्राद् व्यवहारस्त्रिकालविषयाऽवलम्बित्वाद् अनल्पार्थः ।।४९॥ कालाऽदिभेदेन भिन्नाऽर्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीत . वेदकत्वाद् महाऽर्थः ।।५०॥ . प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दस्त द्विपर्ययाऽनुयायित्वात् प्रभूतविषयः ।।५१।। प्रतिक्रियं विभिन्नमर्थं प्रतिजानानाद् एवंभूतात् समभिरूढस्तद न्यथाऽर्थस्थापकत्वाद् महागोचरः ।।५२।। व्यवहाराद् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यन्तिवर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ।।४९।। वर्तमानक्षणमात्रस्थायिनमर्थमृजुसूत्रः सूत्रयतीत्यसावल्पविषयः, व्यवहारस्तु कालत्रियतवर्त्यर्थजातमवलम्बत इत्ययमनल्पार्थ इति ।।४९।। ऋजुसूत्राच्छब्दो बहुविषय इत्याशङ्कामपसारयन्तिकालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः ।।५०।। शब्दनयो हि कालादिभेदाद्भिनमर्थमुपदर्शयतीति स्सोकविषयः, ऋजुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थं सूचयतीति बहुविषय इति ।।५०।। .. शब्दात्समधिरूढो महार्थ इत्यारेका पराकुर्वन्ति___प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ।।५।। . समभिरूढनयो हि पर्यायशब्दानां व्युत्पत्तिभेदेन भिन्नार्थतामर्थयत इति तनुगोचरोऽसौ, शब्दनयस्तु तेषां तद्भेदेनाप्येकार्थतां समर्थयत इति समधिकविषयः ।।५।। समभिरूढादेवंभूतो भूमविषय इत्यप्याकूतं प्रतिक्षिपन्तिप्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः ॥५२॥ एवंभूतनयो हि क्रियाभेदेन भिन्नमर्थं प्रतिजानीत इति तुच्छविषयोऽसौ, समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रेतीति प्रभूतविषयः ।।५२।। (१९४)NNNNNNNNAINA स्याद्वादमञ्जरी
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy