SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ - तद्रव्यत्वाऽऽदिकं । प्रतिजानानस्तद्विशेषानिढुवानस्तदाभासः ।।२१।। • यथा द्रव्यत्वमेव तत्त्वम् । ततोऽर्थान्तरभूतानां . द्रव्याणामनुपलब्धेरित्यादि ।।२२।। संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं - येनाऽभिसन्धिना क्रियते स व्यवहारः ।।२३।। यथा यत् सत् तद् द्रव्यं पर्यायो वेत्यादिः ।।२४।। द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिहृवानस्तदाभासः ।।२१।। तदाभासोऽपरसंग्रहाभासः ।।२१।। उदाहरन्ति.. यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः ।।२२।। अयं हि द्रव्यत्वस्यैव तात्त्विकतां प्रख्यापयति, तद्विशेषभूतानि तु धर्मादिद्रव्याण्यपहृत इत्यपरसंग्रहाभासनिदर्शनम् । सर्वत्र संग्रहाभासत्वे कारणं प्रमाणविरोध एव, सामान्यविशेषात्मनो वस्तुनस्तेन प्रतीतेरभिहितत्वात् ।।२२।। अथ व्यवहारनयं व्यवहरन्ति संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः ॥२३।। संग्रहगृहीतान् सत्त्वाद्यर्थान् विधाय न तु निषिध्य यः परामर्शविशेषस्तानेव विभजते, स व्यवहारनयस्तज्ज्ञैः कीर्त्यते ।।२३।। . . उदाहरन्ति यथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादिः ।।२४।। आदिशब्दादपरसंग्रहगृहीतार्थगोचरव्यवहारोदाहरणं दृश्यम् । यद् द्रव्यं तज्जीवादि षड्विधं, यः पर्यायः स द्विविधः-क्रमभावी सहभावी चेति । एवं यो जीवः स मुक्तः संसारी च, यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्चेत्यादि ।।२४।। १ सद्' इति क. पुस्तके पाठः । . २ 'प्रतिपद्यमानः' इति क. पुस्तके पाठः । (१chAAAAAAAAAAAAAP स्याद्वादमञ्जरी
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy