SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ एवमन्यासामपि तत्कल्पनानां 'तमोमोहमहामोहतामिस्रान्धतामित्रभेदात् पञ्चधाऽविद्या- स्मितारागद्वेषाऽभिनिवेशरूपो विपर्ययः । ब्राह्मप्राजापत्यसौम्येन्द्रगान्धर्वयाक्षराक्षस- पैशाचभेदादष्टविधो दैवः सर्गः । पशुमृगपक्षिसरीसृपस्थावरभेदात् पञ्चविधस्तैर्यग्योनः । ब्राह्मणत्वाद्यवान्तरभेदाऽविवक्षया चैकविधो मानुषः । इति चतुर्दशधा भूतसर्गः । बाधिर्यकुण्ठतान्धत्वजडताजिध्रतामूकताकोण्यपङ्गुत्वक्लैब्योदावर्तमत्ततारूपेकादर्शेन्द्रियवधतुष्टिनवक-विपर्ययसिद्ध्यष्टक-विपर्ययलक्षणसप्तदशबुद्धिवधभेदादष्टाविंशतिविधा शक्तिः । प्रकृत्युपादानकाल-भोगाऽऽख्या अम्भःसलिलौघवृष्टयपरपर्यायवाच्याश्चतस्र आध्यात्मिक्यः, शब्दादिविषयोपरतयश्चार्जनरक्षणक्षयभोगहिंसादोषदर्शनहेतुजन्मानः पञ्च बाह्यास्तुष्टयः । ताश्च पारसुपारपारापाराऽनुत्तमाम्भ- उत्तमाम्भःशब्दव्यपदेश्याः । इति नवधा तुष्टिः । त्रयो दुःखविधाता इति मुख्यास्तिस्रः सिद्धयः प्रमोदमुदितमोदमानाऽऽख्या । तथाध्ययनं शब्द ऊहः सुहृत्प्राप्तिर्दानमिति दुःखविधातोपायतया गौण्यः पञ्च तारसुतारतारताररम्यक- सदामुदिताऽऽख्याः । इत्येवमष्टधा सिद्धिः । धृतिश्रद्धासुखविविदिषाविज्ञप्तिभेदात् पञ्च कर्मयोनयः । इत्यादीनां ५संवरप्रतिसंवरादीनां च तत्त्वकौमुदीगौडपादभाष्यादिप्रसिद्धानां विरुद्धत्वमुद्भावनीयम् ।। इति काव्यार्थः ।।१५।। . इदानीं ये प्रमाणादेकान्तेनाऽभिन्नं प्रमाणफलमाहुः, चे य बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुवते तन्मतस्य विचार्यमाणत्वे 'विशरारुतामाह - न तुल्यकाल: फलहेतुभावो हेतौं विलीने न फलस्य भावः । १. सांख्यतत्वकौमुदी कारिका ४७ । २. सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ४७ । ३.. सांख्यकांरिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ५३ । ४. सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ४९।५०५१ ५. 'संचारप्रतिसंचारादीनाम्' इति क. पुस्तके पाठः । ६. विशरारुता-विनश्यमानता । ७. 'आहुः' इति क. ख. रा. पुस्तेकेषु पाठः । (११०) NATANAMANNARAN स्याद्वादमञ्जरी
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy