SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ त्रैकाल्यपरीक्षा ४४३ तामाश्रित्य प्रवर्तन्तेऽतीतानागतदेशनाः ॥१८५४॥ समस्तकल्पनाजालरहितज्ञानसन्ततेः ।. तथागतस्य वर्तन्तेऽनाभोगेनैव देशनाः ॥१८५५॥ अतीतार्थापेक्षया कार्यतां गतम्, अनागतापेक्षया कारणताम्। विकल्पानुगतात्मभिरिति। सविकल्पैरित्यर्थः । तत्त्वतोऽविषयैरेति आविष्टाभिलापैनिः; स्वलक्षणस्याविषयीकरणता । तत् तस्मात् । हेतुफलयोः सन्ततिं भूतां भाविनी चाश्रित्य अतीतादिदेशना योगिनामपरिशुद्धानां प्रवर्त्तन्ते। भगवतस्तु तथागतस्य शुद्धलौकिकमपि ज्ञानं नास्ति; नित्यसमाहितत्वात् सर्वाविद्याप्रहाणेन । विकल्पस्य चाविद्यास्वभावत्वात्। यदाह ___ "विकल्प: स्वयमेवायमविद्यारूपतां गतः। .. स्वाकारं बाह्यरूपेण यस्मादारोप्य वर्तते ।" ( ) इति। तस्य पूर्वप्रणिधानपुण्यज्ञानसम्भारसामर्थ्यादवाप्तचिन्तामणिसदृशात्मभावस्यानाभोगेनैव देशनाः प्रवर्तन्ते ॥ १८५२-१८५५ ॥ इति त्रैकाल्यपरीक्षा॥ १. चाश्रिता-पा०, गा०।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy