SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ स्वतःप्रामाण्यपरीक्षा - ६९१ 'सामग्र्यन्तरजन्यत्वासिद्धेः' इति । दोषापगमे गुणानां व्यापारो न प्रामाण्योत्पत्ताविति चेत्? तन्न; अपगमस्यावस्तुत्वान्न तत्र कस्यचिद् व्यापारो युक्तः । न ह्यवस्तुनि शशविषाणादावनुत्पाद्यस्वभावे कस्यचिद् व्यापारः सम्भवति। यच्चोक्तम्-'विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादकं दृष्टम्' इति, एतदप्यसिद्धम्; न हि त्रैरूप्यमेव केवलमनुमानस्योत्पादकम्, किं तर्हि ? प्रतिपत्तृगता अप्यमूढस्मृतसंस्कारा गुणाः । तथा हि-सत्यपि त्रैरूप्ये प्रभ्रष्टसम्बन्धस्मृतिसंस्कारस्य, अप्रतीतसम्बन्धस्य च प्रतिपत्तुर्नोपजायतेऽनुमानमित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञानोत्पादकमेव प्रामाण्योत्पादकमित्येतदसिद्धम्। अतो विपर्ययो दुर्निवार एव व्यवस्थितः। यच्चोक्तम्-"विपर्ययज्ञानरूपं कार्यमिन्द्रियादिस्वरूपान्नोत्पद्यते" इति, तदप्यतिसाहसम्; इन्द्रियानपेक्षस्यापि विपर्ययज्ञानस्योत्पत्तिप्रसङ्गात्। न हि यो यतः स्वभावानोत्पद्यते, तस्य तदपेक्षा युक्ता; अतिप्रसङ्गात्। न चेन्द्रियनिरपेक्षं तैमिरिकादिद्विचन्द्रादिज्ञानमुत्पद्यते। किञ्च-यद्यर्थाविसंवादित्वमवगतम, येन तत्र भवतामग्दिर्शिनां प्रामाण्यव्यवहारः स्यात् ! न ह्यविदिततत्कायैस्तच्छक्तिरवधारयितुं शक्यते; अतिप्रसङ्गात्। ततश्च यस्यैव वेदस्य प्रामाण्यस्थिरीकरणप्रत्याशया सर्वमेतद् वाग्जालमुपरचितम्, तस्यैव तन्न प्रसिद्धमिति केवलं तण्डुलार्थिना तुषकण्डनमेतत् कृतमित्यलमतिप्रसङ्गेन ॥ ३१२२ ॥ इति स्वतःप्रामाण्यपरीक्षा॥ १. प्रतिपत्तिर्गता-पा०। २. प्रतिपत्तिों -पा०। ३. तन्दुलार्थिना-गा।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy