SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तत्त्वसंग्रहे सा च वस्तुगतो धर्मो वस्त्वात्मा वा तथाविधः ॥ २४२४॥ अपौरुषेयतेत्यनेन श्रुतेः स्वतन्त्रताऽभिधीयते पुरुषव्यापारनिरपेक्षा; तत एव [G.662] श्रुतिः प्रमाणमित्यभिसम्बन्धेन प्रयोगात् । अन्यथा हि कोऽतिशयः पौरुषेयत्वनिवृत्तिमात्रे प्रतिपादिते प्रतिपादितः स्यात् ! सा चापौरुषेयता वस्तुधर्मो येषां च धर्मधर्मिभेदः पारमार्थिकः । परमार्थतस्तु स्वभाव एव वस्तुनो भेदान्तरप्रतिक्षेपजिज्ञासायां तथोच्यत इति दर्शयति - वस्त्वात्मा वेति । तथाविध इति स्वतन्त्रः ॥ २४२४॥ ५६४ यदुक्तम्–“ भावपक्षप्रसिद्ध्यर्थम् " (तत्त्व० २०९९) इत्यादि, तत्राह - भावपक्षप्रसिद्ध्यर्थमुच्यते यच्च साधनम् । निराकृतेऽपि ते तस्मिन्नाभावः सिध्यति स्वयम् ॥ २४२५ ।। यस्य हि वस्तुनो निश्चयाय यत् साधनमुपादीयते तस्मिन्निराकृते तत्र वस्तुनि ततो निश्चयो न भवतीत्येतावन्मात्रं स्यात्, न वस्तुनोऽपि निवृत्तिः । यतः प्रमाणनिवृत्तावपि प्रमेयस्य न निवृत्तिरिति प्रतिपादितम्; तस्य हेतुत्वव्यापकत्वविकल्पात् ॥ २४२५ ॥ तद्भावसाधनेऽप्यस्ते न स्यात् तद्भावनिश्चयः । तद्भावविनिवृत्तेस्तु तन्मात्रान्नास्ति निश्चयः ॥ २४२६ ।। अस्त इति क्षिप्ते । एतावत् तु वक्तुं युक्तम् - द्वयोरपि पक्षसिद्धिर्नास्तीति । इतिशब्दोऽध्याहार्यः, स च नास्तीत्यस्यानन्तरं द्रष्टव्यः ॥ २४२६ ॥ निवृत्तावपि मानानामर्थाभावप्रसिद्धितः । तेनैतावद् भवेन्नास्ति पक्षसिद्धिर्द्वयोरपि॥ २४२७॥ यथा हि नित्यवादिना शब्दस्य वस्तुभूतं नित्यत्वं सिसाधयिषता - ' नित्यः शब्दः, अमूर्त्तत्वादाकाशवत्' इति प्रयोगे कृते, प्रतिवादिना - 'नामूर्त्तत्वान्नित्यः शब्दो युक्तः; सुखादिभिरनैकान्तात्' इत्येवं वस्तुभूतनित्यत्वे साधने निराकृतेऽपि न हि शब्दस्यानित्यत्वं सिध्यति ; तथेदमपीति शेषः ॥ २४२७ ॥ एतदेवोदाहरणेन द्रढयन्नाह नामूर्त्तत्वाद् यथा शब्दः सुखादौ व्यभिचारतः । इत्युक्तेऽपि न शब्दस्य विनाशित्वं प्रसिध्यति ॥ २४२८ ॥ यर्थेत भिन्नक्रमः उक्तेऽपीत्यस्यानन्तरं द्रष्टव्यः । शब्दइत्यस्यानन्तरम्' नित्यः सिध्यति ' इत्येतदध्याहार्यम्। एकदेशप्रयोगो वा भीमादिवद् द्रष्टव्यः ॥ २४२८ ॥ " यत् पूर्वपरयोः " (तत्त्व० २१०० ) इत्यादावाह - तत् पूर्वपरयोः कोट्योर्यदुक्तं साधनं परैः । तन्निराकरणेऽप्येते ऽकृतार्था वेदवादिनः ॥ २४२९॥ [G.663] तदिति तस्मात् । अकृतार्था इति स्वपक्षासिद्धेः ॥ २४२९ ॥ १. पा. गा० पुस्तकयोर्नास्ति । ३. सुखादी - जै० । ५. अकृतकत्वा- जै २. पा. गा० पुस्तकयोनास्ति । ४. यत्तु — पा०, गा० ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy