SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ५५४ तत्त्वसंग्रहे "तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते। वचनेन तु नित्येन यः पश्यति स पश्यति ॥" (तत्त्व० ३१७४) इति ॥ २३७२॥ स्यादेतत्-वेद एव स्वयं पुरुषव्यापारमनपेक्ष्यास्मै पुरुषाय 'स्वमर्थमावेदयिष्यते, तेनेतरेतराश्रयप्रसङ्गो नावतरति ? इत्याह वेदो नरं निराशंसो ब्रूतेऽर्थं न सदा स्वतः। अन्धात्तयष्टितुल्यां तु 'व्याख्यां समपेक्षते ॥ २३७३॥ न हि प्रथमे श्रुतोऽसमयज्ञस्य स्वयं स्वमर्थमावेदयते वेदः। किन्नाम कुरुते? इत्याह– अन्धात्तेत्यादि । अन्धेरात्ता=गृहीता, यष्टिः तया तुल्येति विग्रहः ।। २३७३ ।। अपेक्षताम्; को दोषः? इत्याह- . स तया कृष्यमाणश्च कुवर्मन्यपि सम्पतेत्। . . . ततो नालोकवद् वेदश्चक्षुर्भूतश्च युज्यते॥२३७४॥ स इति वेदः। तयेति पुव्याख्यया। कुवम॑न्यपि सम्पतेदिति । विपरीतार्थप्रकाशनात् । ततश्च यदुक्तम् "तस्मादालोकवद्वेदे,सर्वलोकैकचक्षुषि। नैव विप्रतिपत्तब्यम्" (ो० वा०, चो० सू० ९५-९६) इति, तदनुपपन्नम् ॥ २३७४॥ स्वतन्त्रस्येत्यादिना प्रकृतमुपसंहरति स्वतन्त्रस्य च विज्ञानजनकत्वे सति स्फुटम्। प्रामाण्यमपि नैवास्य सम्भाव्यं पुरुषेक्षणात्॥ २३७५॥ शक्तस्य हि न पुरुषापेक्षया ज्ञानजनकत्वं 'युक्तमिति प्रतिपादितम्। भवतु नाम पुरुषापेक्षया शक्तस्यापि ज्ञानजनकत्वम्, तथापि पुरुषापेक्षणाज्ज्ञानजनकत्वेऽपि, प्रामाण्यमस्य स्फुटं न सम्भाव्यमिति पदार्थयोजना। अपिशब्दो भिन्नक्रमः ज्ञानजनकत्वेऽपीत्यस्यानन्तरं द्रष्टव्यः ॥ २३७५ ॥ अस्यैवार्थं व्यक्तीकुर्वनाह- .. यथार्थबोधहेतुत्वात् प्रामाण्यं ह्यवकल्पते। पुंव्याख्यापेक्षणे चास्य न साध्वी मानकल्पना॥ २३७६ ॥ न साध्वी मानकल्पनेति। "स तया कृष्यमाणश्च कुवर्त्मन्यपि सम्पतेत्" (तत्त्व० २३७४) इत्यनेन पूर्वमसाधुत्वस्य प्रतिपादितत्वात् ॥ २३७६ ।। [G.651] ततश्च, यदुक्तम् "प्रमाणेऽवस्थिते वेदे शिष्याचार्यपरम्परा। १. समर्थ- जै०, पा०/ २-२. प्रथमश्रुतो०- पा०, गा०। । ३. पा० पुस्तके नास्ति। ४. पुरुषापेक्षया ज्ञान-पा०, गा० । ५. ज्ञानजनकत्वे सती०-पा०, गा०।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy