SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ५५० तत्त्वसंग्रहे नमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः । न चैष कालान्तरे अवस्थान्तरे पुरुषान्तरे वा विपर्येति तस्मादवितथः'' (मी० द०, शा० भा० १.१.२) इति। तस्मात् सिद्धमालोकवत् सर्वलोकसाधारणो धर्मादिव्यवस्थाहेतुः स्वत एव प्रमाणं वेद इति। ततश्च चित्तमात्रतादिनयो यो बौद्धादिभिर्वर्ण्यते सोऽयुक्त इति स्थितम् ॥ २३४५-२३४९ ॥ |G.645) ननु यदि स्वत एव प्रमाणलोकवत् सर्वसाधारणो वेदः, किमिति केचित् तत्र बौद्धादयो विप्रतिपद्यन्ते, नहि तान् प्रति तस्याप्रामाण्यं युक्तम् ? इत्याशङ्कयाह तस्मादालोकवद् वेदे सर्वलौकिकचक्षुषि। उलूकवत् प्रतीघात: किलान्येषामधर्मजः ।। २३५०॥ यथा किल पटुतरकिरणनिकरप्रोत्सारितसकलतिमिरप्रसरे सवितरि सकलजनसाधारणचक्षुषि च समन्ताद्भात्यपि 'स्वकर्मापराधानुरूपासंज्ञापटुतरलोचनस्योलूकादेर्न रूपमवतरति दर्शनपथम्, एवमधर्मतिमिरोपहतबुद्धिलोचनाः प्रतिहतिमेवासादयान्त स्थितेऽपि सकललोकैकचक्षुषि वेदे शाक्यादय इति। किलशब्दोऽरुचिसूचकः ॥ २३५० ॥ उत्तरपक्षः-तामेवाभिव्यनक्ति सर्वमेतद् द्विजातीनां मिथ्यामानविजृम्भितम्। घुणाक्षरवदप्यत्र, सूक्तं नैषां हि किञ्चन॥२३५१॥ घुणाक्षरवदिति। काकतालीयन्यायेनापीत्यर्थः ।। २३५१॥ यत्र यदुक्तम्- 'यस्मिन्ने मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणम्' इत्यादि, तदत्र हेतोस्तावत् सिद्धत्वमभ्युपगम्यानैकान्तिकतामुद्भावयन्नाह कर्तर्यसत्यपि ह्येषा नैव सत्यार्थतां व्रजेत्। तद्धेतुगुणवैकल्याद् दोषाभावे मृषार्थवत्॥२३५२॥ एषेति श्रुतिः। यथा रागादियुक्तो मुंषावादी दृष्ट इत्यन्वयव्यतिरेकाभ्यां गिरां मिथ्यात्वहेतवो दोषा निश्चिताः, तथा कृपादिगुणयुक्तः सत्यवाक् दृष्ट इति कृपादयो गुणा: सत्यत्वहेतव इति । ततश्च कारणनिवृत्त्या मिथ्यात्ववत् सत्यत्वमपि निवर्तेत । सत्यप्यपौरुषेयत्वे सत्यत्वं न सिध्यति'; अनैकान्तिकता हेतोः ॥ २३५२॥ . अथ गुणनिवृत्तिः कथं निश्चिता? इत्या-: गुणाः सन्ति न सन्तीति पौरुषेयेषु शङ्कयते। आनर्थक्यमतः प्राप्तं गुणाशझैव नास्ति नः ॥२३५३॥ यदेव दोषाभावे कारणं भवताभ्यधायि, तदेव सत्यत्वहेतुगुणाभावेपीति' दर्शयति ॥ २३५३ ॥ अतः सत्यत्वमिथ्यात्वहेतूनां न च संश्रयात्। प्रज्ञादयाऽकृपादीनामभावान्नास्ति तद् द्वयम्॥ २३५४॥ |G.6-10| अत इत्यादिनोपसंहत्य, कारणानुपलब्ध्या सत्यत्वमिथ्यात्वयोरभावप्रसङ्गं दर्शयति । १ स्तकमापरावान् - पा.. २. वदापन्न-पा० गाल ३. यन्– पा०, गा०। ... अतोऽने-गा ५. हेतुर्गणाo- जै।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy