SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रुतिपरीक्षा ५४५ बुद्धिपूर्वविनाशे हि प्रतिसङ्ख्यानिरोधधीः ॥ २३२२॥ अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसङ्ख्यया। तौ च द्वावप्यनाशित्वादिष्टावकृतकावपि ॥ २३२३॥ बुद्धिपूर्वेत्यादि। यो बुद्धिपूर्वो घटादीनां विनाशः स प्रतिसङ्ख्यानिरोधः, यस्त्वबुद्धिपूर्वः सोऽप्रतिसङ्घयानिरोधः-इत्येषा किल बौद्धप्रक्रिया। तेषामिति। घटादीनाम्। तौ चेति । प्रसिङ्ख्याऽप्रतिसङ्ख्यानिरोधौ। अकृतकावीति । अपिशब्दानित्यावपि ॥ २३२१-२३२३ ॥ यथा चानयोरकृतकत्वनित्यत्वे, यथा च तत्र हेतौ वृत्तिः; तथा परमतेनैवोपपादयन्नाह ___ आहुः स्वभावसिद्धं हि ते विनाशमहेतुकम्। त इति बौद्धाः । ननु च अग्निना' काष्ठम्, दण्डेन घट इति नाशहेतवो दृश्यन्ते, तत्कथमहेतुकत्वमस्य? इत्याह - भवति ह्यग्निसम्बन्धात् काष्ठादङ्गारसन्ततिः ॥२३२४॥ वढ्यादयो हि तत्राङ्गारादिपदार्थान्तरहेतुत्वेनान्वयव्यतिरेकाभ्यां निश्चिताः, न विनाशस्य; तस्य निसर्गसिद्धत्वात् ॥ २३२४॥ स्वाभाविको विनाशस्तु जातिमात्रप्रतिष्ठितः। __यदि तर्हि स्वाभाविको नाशः, किमिति वयादि सम्पातात् प्रागपि नोपलक्ष्यते? इत्याह सूक्ष्मः सदृशसन्तानवृत्तेरनुपलक्षितः॥२३२५॥ '. यदा विलक्षणो हेतुः पतेत् सदृशसन्ततौ। .. विलक्षणेन कार्येण स्थूलोऽभिव्यज्यते तदा ॥२३२६॥ सदृशापरापरोत्पत्तेर्विप्रलब्धा हि मन्दा नावस्यन्ति', सदृशसन्तानोत्पत्त्या तूत्प्रेक्षन्तेविलक्षणो हेतुर्मुद्गरादिः, विलक्षणं कार्यं कपालादि। अस्यां किलावस्थायां विनाशस्य स्थूलत्वं व्यक्तीभवति ॥ २३२६ ॥ तेनासदृशसन्तानो हेतोः सञ्जायते यतः। तेनैवाक्रियमाणोऽपि नाशोऽभिव्यज्यते स्फुटः ॥२३२७॥ तेनेत्यादिनोपसंहारः। असदृशसन्तान इति। विलक्षणः। [G.640] हेतोर्यत इति सामानाधिकरण्यम्। तेनैवेति हेतुना। यत इति यो निर्दिष्टः, तस्याभिव्यज्यत इति परेणाभिसम्बन्धः ।। २३२४-२३२७॥ विपक्षवृत्तितां हेतोरुपदर्शयन्नाह- . स मुद्गरप्रहारादिप्रयत्नानन्तरीयकः। यस्मादकृतको दृष्टो हेतुः स्याद् व्यभिचार्यतः ॥ २३२८॥ १. नाश्यते अग्रिना-गा०। २. नावस्यन्ति सूक्ष्म नाशम्-गा० । ३. तत्प्रेक्षन्ते अविनष्टमेव-गा। ४. ......भिव्यज्यते-पा०/
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy