SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रुतिपरीक्षा ५३९ ध्वनीनामानुपूयं स्याज्जात्या चोभयनित्यता ॥२२९४ ॥ [G.632] यद्यपि ध्वनीनामानुपूर्णं न स्वत:९, तथापि तेषां ताल्वादिसंयोगविभागा एवानुपूर्व्य सम्पादयन्ति। उभयस्य च ताल्वादिसंयोगादिक्रमस्य, ध्वनिक्रमस्य च स्वाश्रयसमवेतजातिद्वारेण नित्यतेति सर्वमनाकुलम् ॥ २२९४॥ कथं पुनर्जात्या क्रमस्यानित्यस्यापि सतो नित्यत्वं लक्षयितुं शक्यम्, येन तथोपलक्षितो व्यवहाराङ्गतां यास्यति? इत्याह यथैव भ्रमणादीनां भागजात्यादिलक्षिताः। क्रमानुवृत्तिरेवं स्यात् ताल्वादिध्वनिवर्णभाक्॥२२९५॥ यथा भ्रमणरेचनादीनां क्रियाविशेषाणाम्, आदिशब्दात् पिपीलिकादीनां ग्रहणम्, तेषां क्रमानुवृत्तिर्यथा भागजात्यादिना लक्षिता व्यवहाराङ्गम्, अत्राप्यादिशब्देन पिपीलिकादिजातिपरिग्रहः; तथा ताल्वादिध्वनिवर्णभाक् क्रमानुवृत्तिताल्वादिजातिभिर्लक्षिता व्यवहाराय सम्पद्यत इति सम्बन्धः । ताल्वादिध्वनिवर्णभागिति। ताल्वादयश्च ध्वनयश्च वर्णाश्चेति विगृह्य समासः, तान् भजत इति तथोक्ता । अनेन ताल्वादिसंयोगादिक्रमः स्वजात्युपलक्षितो ध्वनिनिरासहेतुः । ध्वनिक्रमोऽपि ताल्वादिसंयोगविभागपूर्वक: स्वजात्युपलक्षितो वर्णाभिव्यक्तिक्रमो निबन्धनम्, सोऽप्यर्थप्रतीतेरित्युक्तं भवति। क्वचिद् भागा इति पाठः । तत्रैवं सम्बन्धः-यथा भ्रमणादीनां कर्मणां भागा अंशाः क्रमवन्तो जात्या तदन्येव वा केनचिद्-धर्मेणोपलक्षिता व्यवहारहेतवो भवन्ति, तथा ताल्वादिभाक् क्रमानुवृत्तिर्व्यवहाराङ्गमिति। . केचित्-क्रमानुस्मृतिरेवं स्यादिति पठन्ति । तत्रैवं योजना-यथा रेचनादीनां भागा जात्यादिलक्षिताः स्मर्यन्ते, एवं ताल्वादिध्वनिवर्णभाक् ताल्वादिजात्युपलक्षिता क्रमानुस्मृतिविष्यति ॥ २२९५॥ . - व्यक्तीनामेव वा सौम्याजातिधर्मावधारणम्। तद्वशेन च वर्णानां व्यापित्वेऽपि क्रमग्रहः ॥२२९६ ॥ __ अथ वा-न ध्वनीनां ताल्वादिसंयोगविभागक्रमकृतमानुपूर्व्यम्, अपि तु स्वत एव; सावयवत्वादिति दर्शयन्नाह- व्यक्तीनामिति ध्वनीनाम्। तेषां हि ये भागा आरम्भकाः क्रमवन्तः, ते सूक्ष्मा न तैर्व्यवहारसिद्धिः। अतस्तेषु जातिस्वभावा धर्मा नित्यत्वादयः प्रतिनियतशब्दाभिव्यक्तिहेतवो निरूप्यन्ते। निश्चीयन्त इति यावत्। ततः किं सिद्धं स्यात् ? इत्याहतद्वशेनेत्यादि । सत्यपि हि व्यापित्वे वर्णाः क्रमवद्ध्वनिवशात् क्रमवन्त इव भासन्ते ॥ २२९६ ॥ एवं ध्वनिगुणान् सर्वान् नित्यत्वेन व्यवस्थितावन्। वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः ॥ २२९७॥ [G.633] एवमित्यादिना प्रकृतमुपसंहरति । ध्वनिगुणा:-क्रमतीव्रत्वमन्दत्वप्रदेशवृत्तित्वादय:६ । नित्यत्वेन व्यवस्थितनिति । जातिद्वारेण । अनुपतन्तः अनुवर्तमानाः ॥ २२९७ ॥ १. स्वन:- जै०। २. भागाल-पा०, गा०। ३. वृत्तादिकिया०-- जै०। ४-४. भावाजात्यादिनापा०; भावजात्यादिना-गा० / ५. भ्रमणरेचनादीनां-गा० । ६. तीव्रमन्दत्व०-जै०, पा०।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy