SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७३ पुरुषपरीक्षा प्राणिभक्षणलाम्पट्यालालाजालं करोति यत्॥१६८॥ ऊर्णनाभोऽपि न स्वभावतः प्रवर्त्तते, किं तर्हि ? प्राणिभक्षणलाम्पट्यात्कादाचित्कात् प्रतिनियतहेतुसम्भूतादित्यभिप्रायः । न ह्यसौ नित्यैकरूपः, तस्यापि स्वहेतुबलभावित्वेन कादाचित्की शक्तिः ॥ १६८॥ ____ अथापि स्यात्-नानुकम्पया, न क्रीडया, किन्त्वबुद्धिपूर्वकमेव यथाकथञ्चित् प्रवर्त्तते? इत्याह यथाकथञ्चिद् वृत्तिश्चेद् बुद्धिमत्ताऽस्य कीदृशी। नासमीक्ष्य यतः कार्यं शनकोऽपि प्रवर्त्तते॥१६९। एवं हि कैवर्तादेः प्राकृतपुरुषादप्यत्यन्तानभिज्ञतया कथमसौ प्रेक्षावतामवधेयवचनः स्यात्। बुद्धिमत्तेति। प्रेक्षावत्ता। शनक: कैवर्त्तः ॥ १६९॥ एतेनैव पुरुषदूषणेन ये वा शौरिप्रभृतयः परैर्जगतो धातारः कल्पिताः, तेऽपि निरस्ता बोद्धव्या इति दर्शयति - शौर्यात्मजादयो.येऽपि धातारः परिकल्पिताः। . एतेनैव प्रकारेण निरस्तास्तेऽपि वस्तुतः॥१७०॥ तत्र-शौरि:-विष्णुः । आत्मजः ब्रह्मा । आदिशब्देन यो बुद्धिमान् कालः परैरिष्यते तस्य ग्रहणम्। यथोक्तम्- . "काल: पचति भूतानि कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति कालो हि . दुरतिक्रमः"॥ ( ) इति। सुप्तेष्विति प्रलयकाललीनेषु लोकेष्वित्यर्थः। अन्यस्याप्येवम्भूतस्य कुमतिपरिकल्पितस्यापि ग्रहणात् संग्रहः ॥ १७०॥ इति पुरुषपरीक्षा॥ १-१ पा० गा० पुस्तकयो स्ति।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy