SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५० तत्त्वसंग्रहे एवेति कथमसिद्धता हेतोः ! न चानैकान्तिकता, अविकलकारणत्वहानिप्रसङ्गात्, अविकलकारणस्याप्यनुत्पत्तौ सर्वदैवानुत्पत्तिप्रसङ्गोऽविशेषात् । 19 उद्द्योतकरस्त्वाह–“ यद्यपि नित्यमीश्वराख्यं कारणमविकलं भावानां सन्निहितम्, तथापि न युगपदुत्पत्तिरीश्वरस्य; बुद्धिपूर्वकारित्वात् । यदीश्वरः सत्तामात्रेणैवाबुद्धिपूर्वकं भावानामुत्पादकः स्यात्, तदा स्यादेतच्चोद्यम्; यदा तु बुद्धिपूर्वकं करोति तदा न दोषः; तस्य स्वेच्छया कार्येषु प्रवृत्तेः । अतोऽनैकान्तिकतैव हेतोः ( न्या० वा० ४. १. २१) इति । तदेतदयुक्तम्; न हि कार्याणां कारणस्येच्छाभावाभावापेक्षया प्रवृत्तिनिवृत्ती भवतः, येनाप्रतिबद्धसामर्थ्येऽपीश्वराख्ये कारणे सदा सन्निहिते तदीयेच्छाऽभावान्न प्रवर्त्तन्त इति स्यात्, किं तर्हि ? कारणगतसामर्थ्यभावाभावानुविधायिनो भावाः । तथा हि- इच्छावतोऽपि कर्तुरसमर्थानोत्पद्यन्ते, समर्थाच्च बीजादेरनिच्छावतोऽपि समुत्पद्यन्ते । तत्र यदीश्वराख्यं कारणं कार्योत्पादकालवदप्रतिहतशक्ति सदैवावस्थितं भावानाम्, तत्किमिति तदीयामनुपकारिणीं तामिच्छामपेक्षन्ते, येनोत्पादकालवद् 'युगपन्नोत्पद्येरन् ! एवं हि तैरविकलकारणत्वमात्मनो दर्शितं भवेत्, यदि युगपद्भवेयुः । न चापीश्वरस्य परैरनुपकार्यस्य काचिदपेक्षाऽस्ति, येनेच्छामपेक्षेत । अपि च-बुद्धिव्यतिरेकेण नान्येच्छाऽस्ति, बुद्धिश्चेश्वरस्य भवद्भिर्नित्यैकरूपाऽभीष्टा, ततश्च बुद्धिपूर्वकारित्वेऽपीश्वरस्य किमिति भावानां युगपदुत्पादो न भवति, ईश्वरवद् तद्बुद्धेरपि सदा सन्निहितत्वात् ! अथाप्यनित्या तस्य बुद्धिरङ्गीक्रियते, तथापीश्वरसत्तामात्रभावित्वात् तस्या ईश्वरवत् सदाभाव एवेति स एव दोषः । तस्माद् 'बुद्धिमत्त्वात्' इति विशेषणमकिञ्चित्करमेवेति नानैकान्तिकता हेतोः । न चापि विरुद्धता; सपक्षे भावात् । न चैवं भवति, तस्माद्विपर्ययः । प्रयोगः - यद्यदा न भवति, न तत्तदानीमविकलकारणम्, यथा- - कुशूलस्थितबीजावस्थायामनुत्पद्यमानोऽङ्कुरः । न भवति चैकपदार्थोत्पादकाले सर्वं विश्वमिति व्यापकानुपलब्धिः । न च सिद्धसाध्यता; ईश्वरस्य कारणत्वे सति विकलकारणत्वानुपपत्तेः प्रसाधितत्वात् ॥ ८७॥ अपरमपि प्रमाणमाह २. ये वा क्रमेण जायन्ते ते नैवेश्वरहेतुकाः । यथोक्तसाधनोद्भूता जडानां प्रत्यया इव ॥ ८८ ॥ यथोक्तेभ्यः स्वारम्भकावयसन्निवेशविशिष्टत्वादिभ्यः साधनेभ्य उद्भूता [G.56] इष्टसाध्यधर्मिविषया जडानामीश्वरकारणाभिनिवेशिनां प्रत्ययाः = निश्चया इवेत्यर्थः । ननु यथोक्तदोषदुष्टत्वान्नैतेभ्य इष्टे साध्ये प्रत्ययाः समुत्पद्यन्त इति न दृष्टान्तधर्मिसिद्धि: ? सत्यमेतत्; अत एव 'जडानाम्' इत्युक्तम् । जडानां हि साधनाभासविवेकाक्षमतया साधनाभासेभ्योऽपि तेषां प्रत्ययाः समुत्पद्यन्त एव ॥ ८८ ॥ नन्वेवमपि साध्यविकलो दृष्टान्तः, तेषामपि जडप्रत्ययानामीश्वरस्य निमित्तकारणत्वेनेष्टत्वात् ? इत्यत आह १.१ वस्थितम्. भावास्तत्किमिति पा०. गा० । २. युगपत्त उत्पद्येरन्- पा०, गाउ। ३. साधनाविवेका- पा०. गा० ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy