SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ तत्त्वसंग्रहे निस्सरन्ति तथाकामं कुड्यादिभ्योऽपि देशनाः ॥" इत्यनेनाभ्युपगमेन व्यभिचार आशङ्कनीयः; यतस्तत्रापि विवक्षैवाद्या कारणम्'; पूर्वप्रणिधानाहितसंस्कारबलेनैव तत्र वचनप्रवृत्तेः । तथा हि - ' अत्यभ्यस्तग्रन्थस्याध्ययनादिकालेऽन्यद् विकल्पयतोऽपि वचनपादविहरणादिक्रियाप्रवृत्तेः । न हि पूर्वसमीहा न तेषां कारणम्; अन्यथा [G.443] हि गोपालघटिकादौ धूमोपलम्भाद् धूमादेरपि लिङ्गस्य व्यभिचारित्वं चोदनीयं स्यात् । तस्मात् सर्वत्रैव कार्यलिङ्गदेशकालाद्यपेक्षया न व्यभिचारः सम्भवीत्येकान्तसद्भाव एव । न च वैफल्यम्; प्राणतादिसिद्धये प्रवृत्तेः साफल्यसम्भवात् । आदिशब्देन कारणदोषादयो गृह्यन्ते ॥ १५१९॥ ३७८ भवतु नाम विवक्षां प्रति शब्दस्य प्रामाण्यम्, तथापि कोऽत्र धर्मी किं साध्यं वा सम्बन्धः सिद्धः, येन त्रैरूप्यसद्भावेनानुमानेऽन्तर्भावान्न प्रमाणान्तरत्वं स्यात् ? इत्याहविवक्षायां च गम्यायां विस्पष्टैव त्रिरूपता । पुंसि धर्मिणि सा साध्या कार्येण वचसा यतः ॥ १५२० ॥ पादपार्थविवक्षावान् पुरुषोऽयं प्रतीयते । वृक्षशब्दप्रयोक्तृत्वात् पूर्वावस्थास्वहं यथा ॥ १५२१ ॥ पुरुषो धर्मी यत्र वक्ता दृश्यते, सा-विवक्षा साध्या, स्वसन्ताने च सम्बन्धः पूर्वं सिद्धः । यत्र तु वक्ता न दृश्यते तत्र प्रदेशो धर्मी पुरुषविशिष्टः साध्यः । तथा हि- प्रदेशस्यापि शब्दकारणत्वमस्त्येव; पर्वतकुहरादावन्यादृशशब्द श्रवणात् ॥ १५२०-१५२१ ॥ अतो यत्र परैर्बाह्ये त्रैरूप्यादि निराकृतम् । शब्दानामिष्यते तत्र नैवास्माभिः प्रमाणता ॥ १५२२ ॥ यत्र त्वेषामभीष्टेयं व्यक्तं तत्र त्रिरूपता । विवक्षायां तु साध्यायां त्रैलक्षण्यं प्रकाशितम् ॥ १५२३ ॥ एवं स्थितेऽनुमानत्वं शब्दे धूमादिवद् भवेत् । त्रैरूप्यसहितत्वेन तादृग्विषयसत्त्वतः ॥ १५२४॥ अत इत्यादिना बाह्यापेक्षया शब्दस्यानुमानत्वे साध्ये त्रैरूप्यरहितत्वेनेत्यस्य हेतोर्वैफल्यमाहं सिद्धसाध्यतया । विवक्षापेक्षया त्वसिद्धतां यत्रेत्यादिना प्राह; तां प्रति शब्दस्य त्रैरूप्यस्य प्रकाशितत्वात् ॥ १५२२-१५२४॥ इति शाब्दविचारः ॥ १. करणम्- गा० । २. ० श्चाद्याया० पा०, ०न्थस्याध्यायादि०- गा० । ३. विकल्पयतेऽपि पा०|
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy