SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३६० अविद्धकर्णस्त्वाह अत्राह तत्त्वसंग्रहे "विप्रकीर्णैश्च वचनैर्नैकार्थः प्रतिपाद्यते । तेन सम्बन्धसिद्धर्थं वाच्यं निगमनं पृथक् ।" ( सम्बद्धैरेव वचनैरेकोऽर्थः प्रतिपाद्यते । नातः सम्बन्धसिद्ध्यर्थं वाच्यं निगमनं पृथक् ॥ १४४० ॥ हेतोः साध्येन तादात्म्यतदुत्पत्तिलक्षणे सम्बन्धे प्रतिपादितेऽर्थद्वारेण सम्बद्धैरेव पक्षधर्मान्वयव्यतिरेकवचनैरेकोऽर्थः सामर्थ्याद् यथासमीहितः प्रतिपाद्यत इति यद्यपि विप्रकीर्णानि वचनानि, तथापि सम्बद्धान्येवैकार्थोपसंहारेणेति न तत्सम्बन्धसिद्धये पृथग्निगमनं वाच्यम् ॥१४४०॥ च" इति वर्णयन्ति ॥ १४४१॥ ) इति । द्वैविध्यमनुमानस्य केचिदेवं प्रचक्षते । विशेषदृष्टसामान्यपरिदृष्टत्वभेदतः ॥ १४४१ ॥ : केचिदिति कुमारिलादयः । ते हि - " द्विविधमनुमानम् - विशेषतोदृष्टम्, सामान्यतोदृष्टं तत्र विशेषतोदृष्टं कतरत् ? इत्याह- ययोरेव विशेषयोः । प्रत्यक्षदृष्टसम्बन्धं गोमयेन्धनतद्देशविशेषादिमतिः कृता ॥। १४४२ ॥ तद्देशस्थेन तेनैव गत्वा कालान्तरेऽपि तम् । यदाऽग्निं बुध्यते तस्य पूर्वबोधात् पुनः पुनः ॥ १४४३ ॥ सन्दिह्यमानसद्भाववस्तुबोधात् प्रमाणता । विशेषदृष्टमेतच्च लिखितं 'विन्ध्यवासिना ॥ १४४४ ॥ अयमर्थः -पूर्वं कश्चित् क्वचिद् प्रदेशविशेषे वह्निधूमविशेषौ प्रत्यक्षेण गृहीत्व कालान्तरेण दूरं गतो वा यदा पुनः पुनस्तमेव धूमविशेषं दृष्ट्वा तमेव च' वह्निं पूर्वं परिगृहीतमनुमिमीते, [G.423] तद्विशेषतोदृष्टमनुमानम्; पूर्वप्रत्यक्षगृहीतविशेषविषयत्वात् । न च गृहीतग्राहित्वादप्रमाणम्; यतः किं वह्निरास्ते परिनिवृत्तो वा - इति सन्देहविनिवृत्तेरधिकाय विद्यमानत्वात् । इति पिण्डार्थः । अवयवार्थस्तूच्यते प्रत्यक्षदृष्टसम्बन्धमिति । कः सम्बन्ध: ? अत्रोच्यते; शबरस्वामिनाऽनुमानलक्षणमुक्तम्- " अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनादेक देशान्तरेऽसन्निकृष्टे बुद्धिः । तद् द्विविधम्प्रत्यक्षदृष्टसम्बन्धम्, सामान्यतोदृष्टसम्बन्धं च । प्रत्यक्षदृष्टसम्बन्धं यथा - धूमाकृतिदर्शनादग्न्याकृतिविज्ञानम्` । सामान्यतोदृष्टं यथा - देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिमुपलभ्याssदित्यस्य गतिस्मरणम्" (मी० द० शा० भा० १.१.५ ) इति । 1 तत्र कुमारिलएतत्प्रत्यक्षतोदृष्टसम्बन्धमनुमानं व्याचिख्यासुराह— प्रत्यक्षेत्यादि । प्रत्यक्षे १. पा. गा० पुस्तकयोर्नास्ति । २. ० सम्बन्धो- पा०, गा० । ३. ० कृतेर्विज्ञानम् पा०, गा० ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy