SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ शब्दार्थपरीक्षा प्लवमानरूपा शब्दादिषु बुद्धिरुपजायत एव तद्यदि केवलस्य शब्दस्यार्थो नास्त्येव, तत् कथमर्थप्रतिपत्तिर्भवतीति ? अत आह— प्रमेयज्ञेयशब्दादेः प्रतिपत्तिनिमित्तताम् । इत्थं वाक्यस्थितस्यैव दृष्ट्वा कालान्तरेष्वपि ॥ ११७५ ॥ केवलस्योपलम्भे प्रतीतिरुपजायते । या सा तद्वाक्यानुसारतः ॥ ११७६॥ प्लवमानार्थभेदेषु घटादिभ्यो ऽपि शब्देभ्यः सास्त्येव च तथाविधा । तस्माद् घटादिशब्देन ज्ञेयादिध्वनयः समाः ॥ ११७७ ॥ अयमत्र समुदायार्थः - नैव केवलशब्दश्रवणादर्थप्रतिपत्तिरस्ति, किन्तु वाक्येषूपलब्धस्यार्थवतः शब्दस्य सादृश्येनापहृतबुद्धेः केवलशब्दश्रवणादर्थप्रतिपत्त्यभिमानः । तथा हि-येष्वेव वाक्येषु प्रमेयशब्दमुपलब्धवान् श्रोता, तदर्थेष्वेव सा बुद्धिरप्रतिष्ठितार्था प्लवमानरूपा समुपजायते । तच्च घटादिशब्दानामपि तुल्यम् । तथा हि- 'किं घटेनोदकमानयानि, उताञ्जलिना ?'– इति प्रस्तावे 'घुटेन' इति प्रयोगे प्रस्तावानभिज्ञस्य यावत्सु वाक्येषु घटेनेति प्रयोगो दृष्टः, तावतामर्थेष्वाकांक्षावर्ती पूर्ववाक्यानुसारादेव प्रतिपत्तिर्भवति' । तस्माद् यथा घटादिशब्दा विशिष्टार्थवचनाः, तथा प्रमेयादिशब्दा अपीति दर्शयतितस्मादित्यादि ॥ ११७५-११७७॥ [G.359] यदुक्तम्— “ अपोह्यकल्पनायां च" (तत्त्व० ९७९) इत्यादि, तत्राहअपोह्यकल्पनायां च वरं वस्त्वेव कल्पितम् । इत्येतद् व्याहतं प्रोक्तं नियमेनाभ्यवर्जनात् ॥ ११७८ ॥ वस्त्वेव कल्प्यते तत्र यदेव हि विवक्षितम् । क्षेप विवक्षितस्यातो न तु सर्वं विवक्षितम् ॥ ११७९ ॥ वस्त्वेवेत्यादि । वस्त्वेव ह्यध्यवसायवशाच्छब्दार्थत्वेन कल्पितमस्माभिर्यदेव हि विवक्षितम्, नावस्तु । तेन तत्प्रतीतौ सामर्थ्यादविवक्षितस्याक्षेपो व्यावृत्तिरवगम्यत एवेति नाव्यापिनी शब्दार्थव्यवस्था । यदेव च मूढमतेराशङ्कास्थानम्, तदेवाधिकृत्योक्तमाचार्येण'अज्ञेयं कल्पितं कृत्वा तद्व्यवच्छेदेन ज्ञेयेऽनुमानम्” ( ) इति ॥ ११७८ - ११७९॥ 'ज्ञानाकारनिषेधाच्च' ( तत्त्वं० ९७९) इत्यादावाह "" - ज्ञानाकारनिषेधस्तु स्ववेद्यत्वान्न शक्यते । विद्यते हि निरालम्बमारोपकमनेकधा ॥ ११८० ॥ ज्ञानस्यात्मगतः कश्चिन्नियतः प्रतिगोचरम् । ३०७ अवश्याभ्युपगन्तव्यः स्वभावश्च स एव च ॥ ११८१ ॥ अस्माभिरुक्त आकारः प्रतिबिम्बं तदाभता । ( • उल्लेखः प्रतिभासश्च संज्ञाभेदस्त्वकारणम् ॥ ११८२ ॥ २-२. यथार्थवादिशब्दा- पा०, गा० । सम्पादक: 'इति' इत्यधिकं पठति ! १. अत्र १. नापोह्यकल्प ० - जै० 1
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy