SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३०२ तत्त्वसंग्रहे पर्युदासात्मकापोह्यं नियतं यद् यदिष्यते॥११४६॥ तस्मात् पचतीत्येतस्योदासीन्यमन्यच्च भुते दीव्यति चेत्यादिक्रियान्तरपर्युदासात्मकमपोह्यमस्ति, तेन यदुक्तम्- "न पर्युदासरूपं हि निषेध्यं तत्र विद्यते" (तत्त्व० ९७३) इति तदसिद्धम्। पर्युदासात्मकापोह्यमिति। पर्युदासात्मकं च तदपोह्यं चेति विग्रहः । नियतं यद्यदिष्यते इति । तस्य तस्यौदासीन्यादिपर्युदासात्मकमपोह्यमस्तीति सम्बन्धः ॥ ११४५-११४६ ॥ यच्चोक्तम्- "पचतीत्यनिषिद्धं तु स्वरूपेणैव तिष्ठति" (तत्त्व० ९७४) इति, तत्र स्ववचनव्याघातं परस्य प्रतिपादयन्नाह पचतीत्यनिषिद्धं तु स्वरूपेणैव तिष्ठति। इत्येतच्च भवद्वाक्यं परस्परपराहतम्॥११४७॥ . कथं पुनरेतत् परस्परपराहतम् ? इत्याह अन्यरूपनिषेधोऽयं स्वरूपेणैव तिष्ठति। इत्यन्यथा निरर्थे स्यात् प्रयुक्तमवधारणम्॥११४८॥' पचतीत्येतस्यार्थस्वरूपेणैव तिष्ठतीत्यनेनावधारणेनावधारितरूपं दर्शयता पचतीत्येतस्यान्यरूपनिषेधेनात्मस्थितिरिति दर्शितं भवति। अन्यथा स्वरूपेणैवेत्येतदेवावधारणं भवत्प्रयुक्तमनर्थकं स्यात्; व्यवच्छेद्याभावात्॥११४७-११४८॥ यदुक्तम्- "साध्यत्वप्रत्ययश्चात्र': (तत्त्व० ९७५) इत्यादि, तत्राह- .. निष्पन्नत्वमपोहस्य निरुपाख्यस्य कीदृशम्। गगनेन्दीवरादीनां निष्पत्तिर्न हि काचन॥११४९॥ यद्यपोहो भवता निरुपाख्यस्वभावतया गृहीतः, तत्कथमिदमुच्यते-निष्पन्नत्वादिति, न ह्याकाशोत्पलादीनां काचिदस्ति निष्पत्तिः; सर्वोपाख्याविरहलक्षणत्वात्तेषाम् ॥ ११४९ ॥ वस्त्वित्यध्यवसायाच्चेत् सोपाख्यत्वेन भात्यसौ। ततः किम्? [G.353] स्यादेतत्-ययप्यसौ निरुपाख्यः परमार्थतः, तथापि भ्रान्तः प्रतिपत्तभिर्बाह्यवस्तुरूपतया व्यवसितत्वादसावपोहः सोपाख्यत्वेन ख्यातीति? अत्राह- ततः किमिति। यदि नामासौ सोपाख्यत्वेन भाति, तथापि किमत्र प्रकृतार्थानुकूलं जातमिति? अत्र पर आह तुल्यधर्मत्वं वस्तुभिश्चास्य गम्यते॥११५०॥ तेन यथा वस्तु निष्पन्नरूपं प्रतीयते, तथाऽपोहोऽपि वस्तुभिस्तुल्यधर्मतया ख्याते: निष्पन्न इव प्रतीयत इति सिद्धम्– 'निष्पन्नत्वात्' इति वचनम् ॥ ११४९-११५० ॥ यद्येवम्, भवतैव साध्यत्वप्रत्ययस्य भूतादिप्रत्ययस्य च निमित्तमुपदर्शितमिति, न च वक्तव्यम्-'एतन्निर्निमित्तं प्रसज्यते' इति? तदेतदर्शयन्नाह साध्यत्वप्रत्ययस्तस्मात् तथाभूतादिरूपणम्। वस्तुभिस्तुल्यरूपत्वात् तन्निमित्तं प्रसज्यते॥११५१॥ तन्निमित्तमिति । वस्तुभिस्तुल्यधर्मत्वावसायनिमित्तम् ॥ ११५१॥ १. ०वचरित०-पा०; गा०/ २. भातीति- पा०, गा०। ३. ख्यातो- पा०, गा० ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy