SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २६४ तत्त्वसंग्रहे अपोहानां प्रकल्प्येत न ह्यवस्तुनि वासना ॥९५९॥ ' 'न यवस्तुनि वासना' इत्येवं मन्यते। 'निर्विषयो न कश्चित् प्रत्ययोऽस्ति' इति निर्लोडितमेतद् विज्ञानवादविचारे, ततश्च वितथार्थानां विकल्पानामयोगात्तदाहितापि वासना कुतो भविष्यति! अवस्तुनीति। आलम्बनभूते वस्तुन्यसति निर्विषयविज्ञानायोगेन वासनाधायकविज्ञानाभावात् कुतो वासनेत्यर्थः, ततश्च वासनाभावात् कुतो वासनाकृतोऽपोहानां भेदः सद्रपता वा भविष्यतीति भावः ॥ ९५९॥ एवं तावद्वाच्याभिमतमपोहं निराकृत्य, वाचकाभिमतमपि निराकर्तुमाह भवद्भिः शब्दभेदोऽपि तन्निमित्तो न लभ्यते। न यसाधारणः शब्दो वाचकः प्रागदृष्टितः ॥९६०॥ तत्र शब्दान्तरापोहे सामान्ये परिकल्पिते। तथैवावस्तुरूपत्वाच्छब्दभेदो न कल्प्यते ॥९६१॥ वाचकानां यथा नैवं वाच्यवाचकयोर्मिथः। . न चाप्यपोहभेदेन भेदोऽस्तीत्युपपादितम् ॥९६२॥ [G.306] शब्दानां भिन्नसामान्यवचनानां विशेषवचनानां च परस्परतो भेदः शब्दभेदः । तन्निमित्त इति। स वासनाभेदो वाच्यापोहभेदो वा निमित्तं कारणमस्येति तन्निमित्तः । नमु प्रत्यक्षत एव शब्दानां कारणभेदाद्, विरुद्धधर्माध्यासाच्च भेदः प्रसिद्ध एव? इत्याह-न ह्यसाधारणइत्यादि। वाचकं हि शब्दमधिकृत्यैतदुच्यते, न च श्रोत्रज्ञानावंसेयो यः स्वलक्षणात्माऽसाधारणशब्दो वाचकः। कस्मात्? इत्याह-प्रागदृष्टित इति। यो हि व्यवहारकालावस्थायी शब्दः स व्यवहारकालात् प्राक् सङ्केतकाले न दृष्टः, यो दृष्टस्तस्य चिरनिरुद्धत्वान्न तेन व्यवहारः। न च सङ्केतकाले यो न दृष्टस्तेन व्यवहारो युक्तः; अतिप्रसङ्गात्। तस्मान स्वलक्षणस्य वाचकत्वम्। भवतामपि चात्र विवाद एव। यथोक्तम् "नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते। - तस्य पूर्वमदृष्टत्वात् सामान्यं तूपदेक्ष्यते"॥( ) इति । तस्माद्वाचकं शब्दमधिकृत्याभिधानाददोषः । तत्रैवमवस्थिते सति शब्दान्तरापोह: शब्दसामान्यं वाचकं यदि कल्प्यते, यथार्थान्तरापोहोऽर्थसामान्यम्, तदा तथैव-पूर्वोक्तेन विधिना "संसृष्टैकत्वनानात्व" (तत्त्व० ९२५) इत्यादिनोक्तेन, वाच्यापोहानामिव शब्दापोहानामपि परस्परतो भेदो न घटते; नीरूपत्वात्। यथा च वाचकानां परस्परतो भेदो म सङ्गच्छते, एवं वाच्यवाचकयोरपि मिथः परस्परतो भेदो न कल्प्यते, नि:स्वभावत्वात्। स्यादेतद्-अपोह्यभेदात् भेदो भविष्यति? इत्यत आह-न चापीत्यादि । यथा चापोह्यभेदादपि भेदो न विकल्प्यते, तथा "न विशेषः स्वतस्तस्य" (तत्त्व० ९२७) इत्यादिना प्रतिपादितम् ॥ ९६०-९६२॥ २. नैव-पा०, गा०। १. सा मता-पाल, गा०॥ ३. भेदेन-पाल. गा।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy