SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६१ शब्दार्थपरीक्षा न चाप्यश्वादिशब्देभ्यो जायतेऽपोहबोधनम्। विशेष्यबुद्धिरिष्टेह न चाज्ञातविशेषणा ॥९४७॥ न ह्यश्वादिबुद्ध्याऽपोहो व्यवसीयते, किंतर्हि ? वस्त्वेव। ततश्चापोहस्य बोधासम्भवान्न [G.302] तेन स्वबुद्ध्या रज्यतेऽश्वादिः । स्यादेतद्-अज्ञातोऽप्यपोहो विशेषणं भविष्यति? इत्याह-विशेष्येत्यादि। न ह्यगृहीतविशेषणा विशेष्ये बुद्धिर्भवति। न ज्ञातं विशेषणं यस्याः सा तथोक्ता ॥ ९४७॥ भवतु नामापोहबोधनम्, तथापि वस्तुनि तदाकारबुद्ध्यभावात् तस्य तद्विशेषणमयुक्तमिति दर्शयन्नाह ___न चान्यरूपमन्यादृक् कुर्याज्ज्ञानं विशेषणम्। सर्वमेव हि विशेषणं स्वाकारानुरूपं बुद्धिं जनयद् दृष्टम्, न त्वन्यादृशं विशेषणमन्यादृशी बुद्धि विशेष्ये जनयति; न हि नीलमुत्पले रक्तमिति प्रत्ययमुत्पादयति, दण्डो वा कुण्डलीति। न चात्राश्वादिष्वभावानुरक्ता शाब्दी बुद्धिरुपजायते, किं तर्हि ? भावाकाराध्यवसायिनी। स्यादेतत्-अन्यादृशमपि ज्ञानं जनयद् विशेषणमुच्यते? इत्याह कथं चान्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥९४८॥ अन्यादृशे इति विशेषणानुरूपे॥९४८॥ यदि स्यात् को दोषः? इत्याह अथान्यथा विशेष्येऽपि स्याद् विशेषणकल्पना। तथा सति हि यत्किञ्चित् प्रसज्येत विशेषणम् ॥९४९॥ अथ यदि भवतो विशेषणाननुरूपतयाऽन्यथा व्यवस्थितेऽपि विशेषे स्याद् विशेषणकल्पना, तथा सति सर्वमेव नीलादि सर्वस्य विशेषणं स्यात्, ततश्चाव्यवस्था स्यात्॥९४९॥ __ अथ स्याद्-अपोहेनापि स्वबुद्ध्या विशेष्यं वस्तु रज्यते? इत्याह अभावगम्यरूपे च न विशेष्येऽस्ति वस्तुता। . विशेषितमपोहेन वस्तु वाच्ये न तेऽस्त्यतः ॥९५०॥ अभाव: अपोहः, तेनोपोहेन ताद्रूप्याद् गम्यम् अभावगम्यम्, अभावगम्यं रूपं स्वभावो यस्य वस्तुनस्तत् तथोक्तम् । यद्यभावरूपेण वस्तुनः प्रतीति: स्यात्, तदा तस्य वस्तुत्वमेव न स्यात्, भावाभावयोर्विरोधात्। प्रकृतमुपसंहरन्नाह-विशेषितमित्यादि ॥९५०॥ स्यादेतत्-अन्यव्यावृत्त एव वस्तुनि शब्दलिङ्गयोः प्रवृत्तिर्दृश्यते, नापोहरहिते, तेनापोहः [G.303] शब्दलिङ्गाभ्यां प्रतिपाद्यत इत्यभिधीयते, न तु प्रसज्यमात्रप्रतिपादनात्, तेन यथोक्तः सर्वः प्रतीत्यादिविरोधो न भविष्यति? इत्याशङ्कयाह यद्यप्यपोहनिर्मुक्ते न वृत्तिः शब्दलिङ्गयोः। युक्ता, तथापि बोधस्तु ज्ञातुं वस्त्ववलम्बते ॥९५१॥ यदि नाम तद्वस्त्वन्यतो व्यावृत्तम्, तथापि तत्रोत्पद्यमानः शब्दलिङ्गोद्भवो बोधोऽन्य१. वस्तुन इत्यर्थः। २. अपोहविशेषणमित्यर्थः। ३. पा०,गा० पुस्तकयो स्ति। ४. प्रपोत-पा०,गा०। ५. वाच्यं-पा०, गा०1 ६. युक्तम्-पा०, गा०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy