SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सामान्य (जाति) परीक्षा २२७ स्वच्छचेतसः; अतिप्रसङ्गात् । एवं हि विश्वमेकमेव द्रव्यं स्यात्, ततश्च सहोत्पादविनाशादिप्रसङ्गः; अन्यथैकमिति नाममात्रमेव स्यात्, न च नाम्नि विवादः ।। ८०८॥ तदेवं सर्वप्रकारेण जातिमभिदूष्य प्रयोगं रचयन्नाह . नान्यकल्पितजातिभ्यो वृक्षादिप्रत्यया इमे। क्रमित्वानुगमादिभ्यः पाचकादिधियो यथा ॥८०९॥ नित्यस्याजनकत्वं च बाधकं सम्प्रतीयते।। ये क्रमित्वानुगामित्ववस्तुत्वोत्पत्तिमत्त्वादिधर्मोपेताः, ते परपरिकल्पितनित्यैकसर्वगतसामान्यतो न भवन्ति, यथा-पाचकादिप्रत्ययाः । तथा चामी वृक्षादिप्रत्यया इति विरुद्धव्यासोपलब्धिः । नित्यताभावविरुद्धानित्यताभावेन क्रमित्वादेर्व्याप्तत्वात्, नित्यस्य च क्रमाक्रमाभ्यामर्थक्रियाविरोधान्नानैकान्तिकता हेतोः । दृष्टान्तस्य च साध्याविकलतायाः पूर्वं विस्तरेण प्रसाधितत्वान्नासिद्धो दृष्टान्तः। बाधकान्तरमप्याह __संयोगदूषणे सर्वं यदेवोक्तं प्रबाधकम् ।। ८१०॥ तत्र संयोगदूषणे बाधकमुक्तम्-"एकस्यानेकवृत्तिश्च न युक्तेति प्रबाधकम्" (तत्त्व० ६७३) इत्यनेन । यथा चानेकत्रैकस्य वृत्तिर्न युक्ता, तथाऽवयविदूषणे "तद्धयेकवृत्तिभाजा" (तत्त्व० ६०६) इत्यादिना प्रदर्शिता ॥ ८०९-८१०॥ एवमित्यादिनोपसंहरतिः एवमेकान्ततो भिन्नजातिरेषा निराकृता। जैमिनीयाभ्युपेता तु स्याद्वादे प्रतिषेत्स्यते ॥८११॥ यवशेषिकादिभिर्व्यक्तितो जातिरेकान्तभिन्नेष्टा, तेषामिद दूषणमुक्तम्। ये पुनरभिन्नामुभयरूपां च जातिमिच्छन्ति जैन-जैमिनीय-साङ्ख्यादयः, तदुपवर्णिता जातिः प्रस्तावात् स्याद्वादे निषेत्स्यते। इह ‘तु वैशेषिक-नैयायिकोपकल्पिताया जातेः प्रस्तुतत्वान्न दूष्यते; प्रस्तावाभावादिति भावः ॥ ८११॥ ' इति सामान्यपरीक्षा॥
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy