SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सामान्य (जाति) परीक्षा भवद्भिर्वस्तुसमाश्रयो विशेषणविशेष्यभावो गृहीतः, तत्रावश्यं सम्बन्धान्तरमन्वेषणीयम्; अन्यथा व्यवस्थानियमो न स्यात् ॥ ७८४-७८५॥ अपि चायं न चोद्यानुरूप एव परिहारः शङ्करस्वामिनोक्त इति दर्शयन्नाह"अभावोऽभाव इत्येव ज्ञानमत्रावचोदितम् । उपाधिस्थं च सामान्यं स्वाश्रयेष्वेव वर्त्तते ॥ ७८६ ॥ यदिदं घटाभावे, शशविषाणाद्यभावे वा - ' अभावोऽभावः' इत्यनुगामिज्ञानं [G.255] प्रवृत्तम्, तत्रास्माभिरसत्यपि सामान्येऽनुगतप्रत्ययदर्शनाद् व्यर्थान्यत्रापि सामान्यकल्पने चोदितम्; न तु सजातीयानां बहूनां घटादीनां ये प्रागभावादयः, तत्र यज्ज्ञानम्' । यदि नामैवम्, ततः किम् ? इत्याह- उपाधिस्थं चेत्यादि । घटाद्युपाधिगतं यत् सामान्यं घटत्वादि, तत् स्वाश्रयेष्वेव घटादिषु वर्त्तते, नाश्रयान्तरे पटादौ, तत् कथं विजातीयपदादिगतप्रागभावादौ तस्मात् प्रत्ययः स्यादिति भावः ॥ ७८६ ॥ सर्वत्रैकमनुगामि सामान्यमस्तीति चेत् ? आह न चानुयायि तेष्विष्टमन्यत् सत्त्वं यदीष्यते । न षडर्थातिरेकेण जायन्तेऽभावबुद्धयः ॥ ७८७॥ २२१ न हि सकलपटाटिविजातीयानेकपदार्थव्याप्यपरं सामान्यमस्ति यतोऽसौ प्रत्ययो भवेत् । स्यान्मतम् — सत्ताख्यं महासामान्यमस्ति तद्बलादभावप्रत्ययो भविष्यतीति ? तदयुक्तम्; व्यभिचारात् । तथा हि-षट्पदार्थव्यतिरेकेणापरस्य प्रतिसङ्ख्यानिरोधादेः पदार्थस्याभाव इति भवतामभावबुद्धयो याः समुदाचरन्ति, तथोत्पाद्य कथारचितानां कपिञ्जलादीनां स्वभावः ३ परमार्थत इति मतयः, तासु कतमदुपाधिंगतं सामान्यम्, यत्तासां निमित्तं स्यात् । न ह्येषां प्रतिसङ्ख्यानिरोधादीनां सत्त्वमस्ति भवन्मतेन । एतेनेतदपि प्रत्युक्तं यदुक्तं कुमारिले "ननु च प्रागभावादौ सामान्यं वस्तु नेष्यते । . सत्तैव ह्यत्र सामान्यमनुत्पत्त्यादिरूपता ॥” इति । (लो० वा०, अ० ११) अनुत्पत्त्यादिरूपता=अनुत्पादादिविशिष्टतेत्यर्थः । अत्रापि ह्ययमेव दोषः । न हि मतान्तरीयाणां पदार्थानामुत्पाद्यकथार्थानां च सत्तास्ति, येन तदभावप्रतीतिः स्यात् । तदध्यवसायिविकल्पसत्ता तत्र बहिरर्थशून्या प्रतीयत इति चेत् ? यद्येवम्, नित्यैकसत्तारहितो विकल्पमात्रात्मक एवं सकलशब्दार्थः किं नेष्यते ! अन्यथा हि नित्यैकसत्तादिरूपसामान्याभ्युपगमे सत्तापुरुषत्वादीनां सर्वत्र स्वभेदे निरतिशयत्वात् कथं भिन्नरूपा प्रतीतिः स्यादिति चो दुष्परिहारमेव स्यादिति ॥ ७८७ ॥ इदानीमिच्छारचितरूपेषु नष्टाजातेषु चैतत् समर्थनमाहइच्छारचितरूपादावर्थे व्यक्तेरसम्भवादेव स्थिता तद्वयभिचारता ॥ ७८८ ॥ जातिर्न विद्यते । २. 'तत्र' इत्यधिकः पाठो गा० पुस्तके। १. नवोद्यानुरूप- पा०; नश्चोद्यानुरूप- गा० । ३. ० ज्ञ्जलादीनामभाव :- पा०, गा० । अत्र 'कपिञ्जल:' कादम्बर्यां पात्रविशेष: । ४. रूषिता इति तत्रस्थः पाठः ५. मतान्तरीयानां पा०, गा० । [G.256]
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy