SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११६ तत्त्वसंग्रहे पुद्गलस्तु तथा नेति ततो विस्पष्टमन्यता ॥३४६॥ "अनित्याः सर्वसंस्काराः" ( ) इति वचनाद् रूपादयो ह्यनित्यत्वेन वाच्याः, पुद्गलस्तु तथा नानित्यत्वेन वाच्य इष्टः; सर्वप्रकारेण तस्यावाच्यत्वात्। न चाप्यनैकान्तिकता हेतोः; एतावन्मात्रनिबन्धनत्वाद् भेदव्यवहारस्य; अन्यथा हि सकलमेव विश्वमेकं वस्तु स्यात्, ततश्च सहोत्पादविनाशप्रसङ्गः ॥ ३४६॥ न केवलं तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तु पुद्गलोऽयमिति प्रतिपादितम्, इतोऽप्यनित्यत्वेनावाच्यत्वादेवावस्त्विति प्रतिपादयन्नाह अर्थक्रियासु शक्तिश्च विद्यमानत्वलक्षणम्। क्षणिकेष्वेव नियता तथाऽवाच्ये न. वस्तुता ॥३४७॥ इदमेव हि विद्यमानत्वलक्षणं वस्तुस्वभावो यदुतार्थक्रियासु शक्तिः, सर्वसामर्थ्यविरहलक्षणत्वादवस्तुत्वस्येति सामर्थ्यादर्थक्रियासामर्थ्यलक्षणमेव वस्तुत्वमवतिष्ठते। सा चार्थक्रिया क्षणिकेष्वेव नियता, क्षणिकत्वेनैव व्याप्तेति यावत्; नित्यस्य क्रमयौपद्याभ्यामर्थक्रियाविरोधात्। अतस्तथा क्षणिकत्वेनावाच्ये पुद्गले वस्तुता नास्ति; तत्र तद्व्यापकस्य क्षणिकत्वस्य निवृत्तेः वृक्षत्वनिवृत्तौ 'शिंशपात्वादिनिवृत्तिवदिति । यथोक्तम् "अनित्यत्वेन योऽवाच्यः स हेतुर्न हि कस्यचित्" (प्र० वा० १.२०५) इति। स्यादेतद्-यदि पुद्गलो नित्यः स्यात्, तदा तस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः स्यात्, यावता यथाऽसावनित्यत्वेनावाच्यस्तथा नित्यत्वेनापीति अतोऽर्थक्रियासामर्थ्यमस्याविरुद्धमेवेति? तदसम्यक्; न ह्यभयाकारविनिर्मुक्तं वस्तु स्वलक्षणं युक्तम्, नित्यानित्ययोरन्योन्यवृत्तिपरिहारस्थितलक्षणत्वात् । वस्तुन्येकाकारत्यागपरिग्रहयोस्तदपराकारपरिग्रहत्यागनान्तरीयकत्वात्। न ह्यस्माभिरवाच्यशब्दनिवेशनं पुद्गले प्रतिषिध्यते, स्वतन्त्रेच्छामात्राधीनस्य' केनचित् प्रतिषेधुमशक्यत्वात्; किन्त्विदमिह वस्तुरूपं निरूप्यते। किमसौ [G.129] पुद्गलाख्यस्य वस्तुनः स्वभावः सर्वदाऽस्ति? आहोस्विन्नास्तीति? यद्यस्ति तदा नित्य एवासौ, न हि नित्यो नामान्य एव कश्चित्, अपि तु यः स्वभावः सदाऽवस्थायी, न विनश्यति, स नित्य उच्यते। यथोक्तम् "नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति" (प्र० वा०१.२०६) इति। __ अथ नास्तीति पक्षः, तदाऽप्यनित्य एवासौ; अनवस्थायिस्वभावलक्षणत्वादनित्यस्य। अतः क्षणिकाक्षणिकव्यतिरेकेण गत्यन्तराभावाद् अक्षणिकस्य च क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वेनार्थक्रियासामर्थ्यलक्षणं सत्त्वं व्याप्तमिति पुद्गले क्षणिकत्वनिवृत्तौ सत्त्वनिवृत्तिः सिद्धा ॥ ३४७॥ यद्येवम्, यदि पुद्गलो नास्त्येव, कस्माद्भगवता- "स जीवस्तच्छरीरमन्यो जीवोऽन्यच्छरीरम्" इति पृष्टेनोक्तम्-"अव्याकृतमेतत्" ( ) इति, यावता 'नास्त्येव' इति कस्मान्नोक्तम् ? इत्याह१.शिंशापादि०- जै०। २. ०मात्रानीतस्य-पा०, गा०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy