SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७४ औषधेन विना व्याधिः पथ्यादेव निवर्त्तते । न तु पथ्यविहीनस्य औषधानां शतैरपि ॥ एवं भक्तिरपि निषिद्धाचरणशीलस्य न विशेषफलाय । यदि तु द्वयमपि भवति तदा सम्पूर्णसिद्धि:, यथा पथ्यशीलस्यौषधैः । श्रीहेमसूरयोऽप्याहुः वीतराग ! सपर्यातस्तवाज्ञापालनं वरम् । आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च ॥ आकालमियमाज्ञा ते हेयोपादेयगोचरा । आस्रवः सर्वथा हेय उपादेयश्च संवरः ॥ द्रव्यभावस्तवयोश्चैवं फलमूचुः - श्राद्धविधिकौमुदीसङ्क्षेपः उक्कोसं दव्वत्थयं, आराहिअ जाइ अच्चुअं जाव । भावत्थएण पावइ, अंतमुहुत्तेण निव्वाणं ॥ द्रव्यस्तवे च यद्यपि षट्कायोपमर्दनाद्रिका काचिद्विराधना स्यात् तथापि कूपोदाहरणेन गृहिणः स कर्त्तुमुचित एव कर्तृद्रष्टृश्रोतॄणामगण्यपुण्यानुबन्धनिबन्धनत्वात् । यथा नव्यग्रामे स्नानपानाद्यर्थं जनैः कूपखनने तेषां तृष्णाश्रमकर्दममालिन्यादि स्यात् परं कूपजलोद्गमे तेषामन्येषां च तृष्णादेः प्राक्तनमलादेश्चोपशमेन सर्वदा सर्वाङ्गीणं सुखं स्यात् तथेहापि । तदावश्यकनिर्युक्तौ अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथए कूवदितो ॥ अन्यत्रापि आरंभपसत्ताणं गिहीण छज्जीववहअविरयाणं । भवअडविनिवडिआणं दव्वथओ च्चेव आलंबो ॥ 'स्थेयो वायुचलेन निर्वृतिकरं निर्वाणनिर्घातिना, स्वायत्तं बहुनायकेन सुबहु स्वल्पेन सारं परम् । १. स्थेयम् इति भाव्यम् ।
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy