SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४२ श्राद्धविधिकौमुदीसङ्क्षेपः एषां श्रीसुगुरूणां, प्रसादतः षट्खतिथिमिते ( १५०६ ) वर्षे । श्राद्धविधिसूत्रवृत्ति, व्यधित श्रीरत्नशेखरः सूरिः ॥ १२ ॥ अत्र गुणसत्रविज्ञावतंसजिनहंसगणिवरप्रमुखैः । शोधनलिखनादिविधौ व्यधायि सान्निध्यमुद्युक्तैः ॥१३॥ विधिवैविध्याच्छ्रतगतनैयत्याऽदर्शनाच्च यत् किञ्चित् । अत्रोत्सूत्रमसूत्र्यत, तन्मिथ्यादुष्कृतं मेऽस्तु ॥१४॥ विधिकौमुदीति नाम्न्यां, वृत्तावस्यां विलोकितैर्वर्णैः । श्लोकाः सहस्रषट्कं, सप्तशती चैकषष्ट्यधिका (६७६१ ) ॥१५॥ . श्राद्धहितार्थं विहिता, श्राद्धविधिप्रकरणस्य सूत्रयुता । वृत्तिरियं चिरंसमयं जयताज्जयदायिनी कृतिनाम् ॥१६॥ ॥ इति प्रशस्तिः ॥ ॥ इति तपागच्छनायक श्रीरत्नशेखरसूरिकृता विधिकौमुदीनाम्नी श्राद्धविधिप्रकरणवृत्तिः समाप्ता ॥ ॥ समाप्तमिदं स्वोपज्ञवृत्तियुतं श्राद्धविधिप्रकरणम् ॥
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy