SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१२ श्राद्धविधिकौमुदीसक्षेपः दर्शनमात्मनः प्रकटनं करोति । ततः संयतं साधुं सञ्जिनं वा श्रावकं 'अप्पाहे त्ति' सन्देशयति । ततो दण्डिको राजा भोजिको ग्रामाध्यक्षस्तदभावे श्रावकवर्गः सङ्घः साधुसाध्वीवर्गः सत्कारं करोति । अयं भावः-प्रतिमायां समाप्तायां यस्मिन् प्रत्यासन्नग्रामे बहवो भिक्षाचराः साधवश्च समागच्छन्ति, तत्राऽऽगत्यात्मानं दर्शयति, दर्शयंश्च यं साधु श्रावकं वा पश्यति, तस्य सन्देशं कथयति, यथा समापिता मया प्रतिमा ततोऽहमागत इति, तत्राचार्या राज्ञो निवेदयन्ति, यथामुको महातपस्वी समाप्ततपःकर्मातिमहता सत्कारेण गच्छे प्रवेशनीय इति । ततः स रांजा तदभावेऽधिकृतग्रामस्य नायकस्तदभावे समृद्धः श्रावकवर्गस्तदभावे साधुसाध्वीप्रभृतिकः सङ्घो यथाशक्ति सत्कारं करोति । सत्कारो नामोपरि चन्द्रोदयधारण-नान्दीतूर्यास्फालन-सुगन्धवासप्रक्षेपादिकः। एवं सत्कार इमे गुणा: उब्भावणा पवयणे, सद्धाजणणं तहेव बहमाणो। . उहावणा कुतित्थे, जीअं तह तित्थवुड्डी अ ॥ (व्य० भा० ८०८) प्रवेशसत्कारेण प्रवचनस्योद्घाजनं प्राबल्येन प्रकाशनं भवति । तथाऽन्येषां साधूनां श्रद्धाजननं वयमप्येवं कुर्मो येन महती शासनस्य प्रभावना भवति । तथा श्रावक श्राविकाणामन्येषां च शासनस्योपरि बहुमानो जायते, यथा अहो ! महाप्रतापि पारमेश्वरं शासनं यत्रेदृशा महातपस्विन इति । तथा कुतीर्थानामपभ्राजना हीलना भवति, तत्रेदृशां महासत्त्वानामभावात् । तथा जीतमेतत् कल्प एष यत्समाप्तप्रतिमानुष्ठानः सत्करणीयः । तथा तीर्थवृद्धिश्च प्रवचनस्य ह्यतिशयं वीक्ष्य बहवः संसाराद्विरज्य प्रव्रज्यां प्रतिपद्यन्ते, ततो भवति तीर्थवृद्धिरिति तवृत्तिः ॥ तथा यथाशक्ति श्रीसङ्घस्य सबहुमानाऽऽकारण-तिलककरणचन्दन-जवादि-कर्पूर-कस्तूर्यादिविलेपन-सुरभिकुसुमार्पणादिभक्त्या नालिकेरादिविविधताम्बूलप्रदानादिरूपा प्रभावना कार्या । शासनोन्न
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy