SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रकाशः वर्षकृत्यम् उक्तं चतुर्मासीकृत्यमथ वर्षकृत्यमुत्तरार्द्धनोत्तरगाथया चैकादशद्वारैराह पइवरिसं संघच्चण-साहम्मिअभत्ति-जत्ततिगं ॥१२॥ । जिणगिहिण्हवणं जिणधणवुड्डी-महपूअ-धम्मजागरिआ । सुअपूआ उज्जवणं, तह तिथ्थपभावणा सोही ॥१३॥ प्रतिवर्ष वर्षे वर्षे जघन्यतोऽप्येकैकवारं सङ्घार्चनं चतुर्विधश्रीसङ्घपूजा सार्मिकभक्तिः साधर्मिकवात्सल्यं यात्रात्रिकं तीर्थयात्रारथयात्राऽष्टाह्निकायात्रारूपं जिनगृहे स्नपनमहः, जिनधनस्य देवद्रव्यस्य वृद्धिर्मालोद्घट्टनेन्द्रमालादि-परिधानपरिधापनिका-धौतिकादिमोचनद्रव्योत्सर्पणपूर्वकाऽऽरात्रिकविधानादिना, महापूजा, रात्रौ धर्मजागर्या, श्रुतज्ञान-विशेषपूजा, विविधम् उद्यापनं, तथा तीर्थस्य जिनशासनस्य प्रभावना, शोधिः=आलोचना चेति विशेषधर्मकृत्यानि यथाशक्ति श्राद्धेन विधेयानीति शेषः। (१) तत्र सङ्घपूजायां निजविभवकुलाद्यनुसारेण भृशादरबहुमानाभ्यां साधुसाध्वीयोग्यमाधाकर्मीतादिदोषैरदूषितं वस्त्रकम्बलप्रोञ्छनसूत्रोर्णापात्रोदङ्कक-तुम्बक-दण्डक-दण्डिका-सूची-कण्टककर्षण-कागदकुंपक-लेखनीकलापक-पुस्तादिकं श्रीगुरुभ्यो दत्ते । यद्दिनकृत्यसूत्रम्
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy