SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः चतुर्मासीकृत्यम् उक्तं पर्वकृत्यमथ चतुर्मासीकृत्यं गाथाःनाहपइचउमासं समुचिअ, नियमगहो पाउसे विसेसेंण । येन परिग्रहपरिमाणं प्रतिपन्नं स्यात्तेन तन्नियमाः प्रतिचतुर्मासत सक्षेप्याः । येन तु तन्न प्रतिपन्नं, तेनापि प्रतिचतुर्मासकं चतुर्मास्यां चतुर्मास्यां समुचिता योग्या ये नियमा अभिग्रहास्तेषां ग्रहः स्वीकारः कार्यः । प्रावृषि वर्षाचातुर्मास्यां पुनर्विशेषेण सविशेषं समुचितनियमा ग्राह्याः । तत्र ये नियमा यदा बहुफला. यन्नियमाऽग्रहणे च बहुविराधनाधर्मापभ्राजनादिर्दोषास्ते तदा समुचिताः । यथा वर्षासु शकटखेटननिषेधादि । वार्दलाब्दवृष्ट्यादिना इलिकादिपाते राजादनाऽऽम्रत्यागादि च । देशपुरग्रामजातिकुलवयोऽवस्थाद्यपेक्षया वा समुचितत्वं नियमानां ज्ञेयम् । ते च द्विधा-दुर्निर्वाहा: सुनिर्वाहाश्च । तत्र धनिनां व्यापारिणां चाविरतानां सचित्तरसशाकत्यागसामायिकस्वीकाराद्या दुनिर्वाहाः । पूजादानाद्याश्च सुनिर्वाहाः । नि:स्वानां तु वैपरीत्यं । चित्तैकाग्र्ये च सर्वेषां सर्वे सुनिर्वाहा एव । चक्रिशालिभद्रादीनां दीक्षादिकष्टवत् । तद् गदन्ति ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई, जाव न धीरा पवज्जंति ॥
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy