SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः १८९ स्वस्कन्धाभिमुखमीक्षणे निबद्धम् नरकायुः । परसमयेऽपि पर्वसु स्नानमैथुनादि निषिद्धं । यदुक्तं विष्णुपुराणे चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसङ्क्रान्तिरेव च ॥ तैलस्त्रीमांससम्भोगी, पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥ मनुस्मृतावपि - अमावास्यामष्टमी च, पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥ अतः पर्वावसरे सर्वशक्त्या धर्मे यतनीयम् । अवसरे हि धर्मकृत्यं कृतं स्वल्पमप्यनल्पफलं पानभोजनादिवत् । यद्वैद्यकशास्त्रम् शरदि यज्जलं पीतं, यद् भुक्तं पौषमाघयोः । ज्येष्ठाषाढे च यत्सुप्तं, तेन जीवन्ति मानवाः ॥ वर्षासु लवणममृतं, शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥ पर्वमहिम्ना च प्रायो निर्धर्मिणामपि धर्मे निर्दयानामपि दयायां, अविरतानामपि विरतौ, कृपणानामपि धनव्यये, कुशीलानामपि शीले, निस्तपसामपि तपसि मतिर्भवति । दृश्यते चैतत्सर्वदर्शनेष्वपि सम्प्रत्यपि । तदाह सो जयउ जेण विहिआ, संवच्छरचाउम्मासियसुपव्वा । निद्धंधसाणवि हवइ, जेसि पभावाओ धम्ममई ॥ ततः पर्वसु पौषधादि कार्यमेव । तत्र पौषधचातुर्विध्यादिस्वरूपं अर्थदीपिकायामुक्तमित्यत्र नोच्यते । पौषधं च त्रेधा, अहोरात्र-दिवसरात्रिपौषधभेदात् । तत्रायमहोरात्रपौषधविधिः 1
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy