SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४० श्राद्धविधिकौमुदीसक्षेपः - शुश्रूषायां स्वस्य स्नानदेहसंवाहनादिरूपायां तां प्रवर्त्तयति । तथाकृते विश्रब्धा सती निष्कृत्रिमप्रेमवती न जातु विप्रियमाचरति । 'देइ त्ति' देशकालकुटुम्बविभवाद्यौचित्येन अलङ्कृता हि गृहिण्यो गृहमेधिनां श्रियमेधयन्ति । यतः श्रीमङ्गलात् प्रभवति, प्रागल्भ्याच्च प्रवर्द्धते । ... दाक्ष्यात्तु कुरुते मूलं, संयमात् प्रतितिष्ठति ॥ मूलमित्यनुबन्धं, प्रतितिष्ठतीति प्रतिष्ठां लभते । 'सम्मद्देसु त्ति' सम्मर्देषु । तत्र ह्यशिष्टजनचेष्टिताश्लीलालापचापलप्रवृत्तिविलोकनान्निसर्गनिर्मलमपि जलदवाताहतं मुकुरतलमिव मनः प्रायो विकरोति । रंभइ रयणिपयारं, कुसीलपासण्डिसंगमवणेइ। गिहकज्जेसु निओअइ, न विओअइ अप्पणा सद्धिं ॥ रजन्यां प्रचारं राजमार्गवेश्मगमनादिकं निरुणद्धि । मुनीनामिव कुलवनितानामपि महते दोषाय (दोषाप्रचारः) । धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशीलललनावृन्दमध्यगतामनुमन्यत एव। गृहकृत्यानि दानस्वजनसम्मानरसवतीप्रयोगादीनि । यत: शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुल्लीक्रिया, स्थालीक्षालनधान्यपेषणभिदागोदोहतन्मन्थने । पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, श्वश्रूभर्तृननान्हदेवृविनयाः कृत्यानि वध्वा इति ॥ तेषु नियमादेनां प्रयुङ्क्ते । अनियुक्ता ह्यसौ सर्वथोदास्ते । उदासीनायां च गृहिण्यां सीदन्त्येव गृहकृत्यानि । निर्व्यापारा च सती चापल्याद्विक्रियां भजते । व्यापारव्यग्रत्वादिना हि स्त्रीणां गोपायनम् । यदुमास्वातिः प्रशमरतौ -
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy