SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३२ श्राद्धविधिकौमुदीसक्षेपः वानुचितं देशविरुद्धं, यथा ब्राह्मणस्य सुरापानं तिललवणादिविक्रयश्च । उक्तं हि तत्समये... तिलवल्लघुता तेषां, तिलवच्छ्यामतां पुनः। . तिलवच्च निपीड्यन्ते, ये तिलव्यवसायिनः ॥ कुलमपेक्ष्य च चौलुक्यानां मद्यपानं देशविरुद्धम् .। अन्यदेशिकानां पुरस्तद्देशनिन्दाविधानादि वा देशविरुद्धम् ।१ कालविरुद्धं त्वेवं शीतों हिमालयपरिसरेऽत्यन्तशीते, ग्रीष्मर्त्तावन्तजाङ्गले मरुस्थले, वर्षास्वत्यन्तपिच्छलपङ्काकुलेष्वपरदक्षिणसमुद्रपर्यन्तभागेषु, तथातिदुर्भिक्षे, मिथो नृपद्वयविरोधे, धाट्यादिना मार्गरोधे, दुरुत्तारमहारण्ये, यामिनीमुखांदिभयवेलायां वा तादृक्सामर्थ्यसहायादिदृढबलं: विना प्रस्थानं प्राणधननाशाद्यनर्थकृत् करोति । यद्वा फाल्गुनमासाद्यनन्तरं तिलपीलनतिलव्यववसायतिलभक्षणादि, वर्षासु वा तन्दुलीयकादिपत्रशाकग्रहणादि, बहुजीवाकुलभूमौ शकटखेटनादि वा महादोषहेतुं करोति, तच्च कालविरुद्धम् २। राजादेर्दोषग्रहणं, राज्ञः सम्मतानामसम्माननं, राज्ञोऽसम्मतानां सङ्गतिः, वैरिस्थानेषु लोभाद् गतिः, वैरिस्थानागतैः सह व्यवहारादि, राज्ञः प्रसादे स्वच्छन्देन राजकृत्येष्वपि विधिनिषेधकरणं, नागराणां प्रतिकूलाचरणं, स्वामिद्रोहादि च राजविरुद्धं। दुस्सहोदर्कं भुवनभानुकेवलिजीवरोहिण्यादेरिव । सा हि नैष्ठिक्यधीतस्वाध्यायलक्षाऽपि विकथारसान्मुधा राझ्या दुःशीलतादिवादिनी रुष्टनृपेण मान्योत्तमश्रेष्ठिपुत्रीत्वादिना जिह्वाच्छेदादिभिः खण्डशः कृता (शोऽकृता?) देशनिर्वासनादिदुःखिनी नानाभवेषु जिह्वाच्छेदादि सेहे ३। . लोकस्याऽनिन्दा, विशिष्य च गुणसमृद्धस्य । इयमात्मोत्कर्षश्च लोकविरुद्धौ । यतः संतेहिं असंतेहिं अपरस्स किं जंपिएहिं दोसेहि। .. अत्थो जसो न लंभइ, सोवि अमित्तो कओ होइ ॥ .
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy