SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४३८ भरतबाहुबलि महाकाव्यम् स्फुटविलोक्य मानतटांत रं- प्रकटदृश्यमानतीरांतरं किं कुर्वत् ? प्रमदयत्- हर्ष कुर्वत्, पुनः किं कुर्वत् ? नलिनीदलैः मदयत्-मदं कुर्वत् । १ विलसि० । हे गवेन्द्र ! - क्षितीश !, व्रजकानने- गोवने, गवेन्द्रविनोदितैः - गोपालप्रेरितैः, वृषभैः - महोक्षैः, इह - अस्यां शरदि, किं न विलसितं - न क्रीडितं ? अपि तु क्रीडितमेव । किं विशिष्टैर्वृषभैः ? अतुलसंमदैः - बहुहर्षेः पुनः किं विशिष्ट - वृषभैः ? भैरववासितैः - वृषाणामन्यदृषभाणां भयंकरं वासितं येषां तैः I १३. अतिवि० । ऋतुरपि - शरदपि, अपरया - अन्यया, श्रिया - लक्ष्म्या, नृपं चक्रिणं, अमूमुदत्-मोदयामास । किं० ? अतिविकस्वरकाशपरिस्फुरच्चमरया । किं विशिष्टं राजानं ? अमरयाचितसेवनं । पुनः किं विशिष्टया श्रिया ? अब्जदलातपत्रपरया - कमलदल छत्रयामया । १४. सममि० । हे इलेश्वर ! सितरोचिषः - चन्द्रस्य, प्रतिपत्तिथेः सकलया - संपूर्णया, कलया समं–सार्द्धं, तव जन्मतः, अन्मलया - निर्मलया लक्ष्म्या संप्रति दीप्यते । किं विशिष्टया कलया ? पृथुतमंप्रथया - गुरुतरख्यात्या । १५. किल भ० । हे नृप ! किल इति निश्चयेन, भवान् उल्लसद्विनयया यया जनतया न उररीकृतः - न स्वीकृतः । किं विशिष्टया जनतया ? अभ्युदयद्भिया - प्रादुर्भवदुभयया, भवदनंगीकारिणी प्रायोरिपोर्जनतानतया - कुंचितया, तया जनतया त्वमिव एष ऋतुर्निषेव्यते - पर्युपास्यते । कथं ? कलितोत्सवं । १६. शरदि० । हे विहितसज्जन ! - कृतसामग्रीक ! युधे शरदि पंकभरा मुदिरेभ्यः विवर्द्धनात्–मेघध्वनिविच्छेदात्, न मुमुदिरे - न जहषुः । भवतु - विद्यमानः, क्षयःराजयक्ष्मा, येषां ते, प्रायेण क्षयरोगी शुष्यति, तद्वत्पंका अपि शोषं गताः, मेघाऽल्पीयस्त्वात् । स एव सज्जनो य उपकृतापदि तुदते - व्यथते । अत्र उपकर्त्ता मेघः । १७. तव स० । हे नरेश्वर ! तव सभा इव वनराजि:, अराजत - अशोभत । किं विशिष्टा सभा वनराजिश्च ? सुमन श्रिया - कुसुमलक्ष्म्या, तरुणया - रक्तया, सुंदरा - मनोज्ञा । सभार्थे सुमनसो देवाः पंडिताश्च । पुनः किं विशिष्टा ? वरसंचरन्नवनरा-वराः- प्रधानाः, संचरंतो नवास्तरुणा नरा यस्यां सा । १८. निववृ० । हे अरालमतिद्विषन् ! - हे वक्रमतिवैरिन् ! शिखिभिः - मयूरैः, सततोच्छलत्कलमरालं-सततमुच्छलंत: कलमरालाः - कलहंसा:, यस्मिन्, असो, तं । शरत्समयं विलोक्य, निववृते - निवृत्तं । किं विशिष्टं ? घनाघनगमं -
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy